________________
१६६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
स्तोकावस्थैर्विशेषेण, वसन्तोत्सवसम्भवैः' । बालक्रीडागृहप्रायै-विद्वज्जनगुप्सितैः ॥३१।। तेऽपि वित्तेन यदि हीना, भूयसा स्युः सतामलम् । काकमांसमिवोच्छिष्टं, वर्जनीया विशेषतः॥३२॥ तथाहि-काकमांसं तदुच्छिष्टं, तुच्छमत्यन्तदुर्बलम् । भक्षितेनापि किं तेन, तृप्तिर्येन न जायते ॥३३॥ एवं तुच्छेष्वसारेषु, यद्विलासेषु रज्यते । जनस्तत्राज्ञता हेतु-रथवाऽऽत्मभरणता ॥३४॥ शुभचित्त: समालोच्य, चेतसा रहसि स्थित: । कलाभ्यासपर: शान्त:, समास्तेऽसौ निराकुल: ॥३५॥ महाराजोऽथ पप्रच्छ, नरसिंहो जनं निजम् । किं नु भो नरचन्द्राद्या, लोका सर्वेऽपि मामका: ॥३६॥ सञ्जातेऽथ मनोमोदे, मधुमासेऽतिशालिनि । क्रीडन्ति वा न वेत्यत्र, सत्यमेव निगद्यताम् ॥३७॥ ततो जनो जगादैनं, महीनाथं कृताञ्जलि: । तव पुत्रं विना नाथ ! शेषा: क्रीडन्ति मानवा: ॥३८॥ तद्वचनं समाकर्ण्य, शङ्कितो निजमानसे । उत्थाय सहसा स्नेहा-त्कुमारान्तिकमागत: ॥३९॥ कुमारोऽपि समुत्थाय, विनयानतविग्रहः । ऊचे कृतशिर:पाणि:, कार्यं तात ! निगद्यताम् ॥४०॥ राजाह सत्कुले जन्म, रूपं रोगविवर्जितम् । वयोऽतिसुन्दरं पुत्र!, वित्तं तव गृहेऽधिकम् ॥४१॥ परिजनो विनीतश्च, स्वाज्ञैश्वर्यं च सुन्दरम् । जनानुराग: सौभाग्यं, जातं ते पुण्ययोगतः ॥४२॥ विलासकारणे यूनां, वसन्ते समुपस्थिते । विलासविमुखेनेह, मुनिनेव किमास्यते ? ॥४३॥ कुमार: प्राह-श्रूयतां कारणं तात!, येन न क्रियते मया। विलासो यौवनस्थेन, वसन्तेऽपि समागते ॥४४॥ कायश्चकास्ति रूपेण, रूपं भाति सयौवनम् । शृङ्गारैर्यौवनं भाति, शृङ्गारा अपि सम्पदा ॥४५॥ अथवा-स्वगुणै रूपमाभाति, रूपं भाति सुशीलत: । शोभते सर्व एवेह, लोको लक्ष्म्या विशालया॥ विवाहवृद्धियात्रासु, मित्राणां सङ्गमे तथा । जायते मानभङ्गो हि, मानिनामल्पसम्पदाम् ॥४७॥ यथाकाशं विना चन्द्रम्, सरोऽपि कमलैर्विना । शोभते नैव लोकेऽस्मिं-स्तथा भोगो धनं विना॥४८॥ उन्नतिर्जायते लोके, नि:सङ्गानां धनं विना । विलासिनां विना वित्तै-र्जायते मानखण्डनम् ॥४९॥ तस्मादलं विलासैनः, स्वल्पकालै: स्वपोषकैः । श्रुत्वेदं वचनं राजा, चिन्तयामास मानसे ॥५०॥ विलासचित्तो मत्सूनु-महेच्छोऽयं नरोत्तम: । नैवास्य जायते तोषो, विलासैनवर्जितैः ॥५१॥ परोपकारो माध्यस्थ्यम्, दाक्षिण्यं दानशीलता। सतामुदारचित्तानां, यतोऽमी सहजा गुणा:।।५२॥ ततो राजा बभाणैवं, रझिंतस्तद्गुणैरलम् । अस्ति वित्तं तवायत्तं, कुरु वत्स ! समीहितम् ॥५३॥ आदिदेश ततो राजा, भाण्डागारिकमञ्जसा । दातव्यं भोस्त्वया सर्वं, कुमारो यत्समीहते ॥५४॥ एवं सर्वं समादिश्य, राजा स्वार्थमशिश्रियत् । तत: कुमारवाक्येन, पुर्यामुद्घोषणे कृते ॥५५॥ समायाता जना: सर्वे, युवान: सविशेषत: । कुमारशासनात्तुष्टा, मधुमासदिदृक्षवः ॥५६॥ कुमारस्तानथ प्रेक्ष्य, चिन्तयामास मानसे । आत्मतुल्यानिमान् कुर्वे, सद्वस्त्रादिप्रदानत: ॥५७।। यौवनं जीवितं वित्तं, व्यापारो रूपमेव वा । तदेव शस्यते सद्भि-रुपकाराय देहिनाम् ॥५८॥ १°सम्भवे-BJPC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org