________________
अधिकार ४ श्लोक | ११२-११४ / नरचन्द्रकथा
-
१६५
पालयति महीपाल-स्तां पुरीं पुरुषोत्तमः । नरसिंहाभिधो वीरः, सदा नीतिपरायणः ॥५॥ दुर्वारवैरिवारेण, रणेनैव विनिर्जितः । सत्त्वावर्जितया यस्तु, वृतो तोषाज्जयश्रिया ॥६॥ द्वितीयाचन्द्रलेखेव, जनानन्दविधायिनी। आसीत्प्रयतमा तस्य, चन्द्रलेखेति विश्रुता ॥७॥ भुञ्जानस्य तया सार्धं, विषयान्पञ्चविधानलम् । कतिचिद्वासरा जग्मु-धर्मार्थावपि सेवतः ॥८॥ अथ पुत्र: समुत्पन्न:, सल्लक्षणविराजित: । सौम्यो जनमनोमोद-दायी चन्द्रसमाननः ॥९॥ नरचन्द्राभिधो रक्त-कोमलकरपल्लव: । वर्धमान: शरीरेण, सञ्जात: स कलोचित: ॥१०॥ स्वधिया स्वल्पकालेन, गृहीता: सकला: कला: । यौवनं च समारूढ़ों, लोकलोचनशोभनम् ॥११॥ उदग्रयौवनस्थोऽपि, कलाभ्यासपरायण: । कामबाणव्यथातीतो, निर्वाहयति वासरान् ॥१२॥ अन्यदा चिन्तयामास, नरचन्द्रः स्वमानसे । परोपकारिणामेव, सफलं जन्म मे मतिः ॥१३॥ कर्तव्योऽसौ सदा, सद्भि-र्जीवितेनापि सत्वरम् । जायन्ते जन्तवो येन, सुखिनो जगतीतले ॥१४॥ उपकारपरा: सन्तो दुर्जनास्त्वपकारिणः । एतदेव स्फुटं लिङ्गं, तयोरिह निगद्यते ॥१५॥ आसाद्य मानुषं जन्म, सदा कार्यो मनीषिणा । उपकार: परो नित्य-मन्यथा जन्म हारितम् ॥१६॥ उपकारोऽपि विज्ञेयो, निराशंसेन चेतसा । विधीयते विशालेन, य: सदा न यथाकथम् ॥१७॥ यतोऽभ्यधायि
अयं निजः परो वेति, गणना लघुचेतसाम् ।
उदारचरितानां तु, वसुधैव कुटुम्बकम् ॥१८॥ आनन्दबिन्दुसन्दोह-दायी कामिजनप्रियः । अवतीर्णस्तदा रम्यो, वसन्तसमयो जने ॥१९॥ मुञ्चन्ति मञ्जरीनिकर, सहकारा मनोहरम् । पुष्पं किंशुका यत्र, रक्ता इव समन्ततः ॥२०॥ अशोक: पल्लवोल्लासी, कलकण्ठरवाकुल: । सकामकामिनीपाद-पातसञ्जातसंमदः ॥२१॥ किंबहुना समस्तापि, वनराजी विराजिता । वसन्तसमये जाते, रम्यया कुसुमश्रिया ॥२२॥ उत्फुल्लफुल्लकिञ्जल्क-पानसञ्जातसंमदाः । अलयस्तत्र गुञ्जन्ति, मन्दं श्रुतिसुखावहम् ।।२३।। निर्गच्छन्ति महाभक्त्या, चर्चर्य: सुमनोहरा: । आन्दोलिका विधीयन्ते, शाखिशाखासु सुन्दराः ॥२४|| गायना: क्वापि गायन्ति, रम्यमानन्दपूरिता: । पिबन्ति क्वापि मद्यानि, जना 'हर्षोत्कर्षिता: ॥२५॥ कामुका: क्वापि कान्ताभिः, समं जल्पन्ति नर्मणा । क्वापि देहस्य शृङ्गारं, कुर्वन्ति वसनादिभिः ॥२६॥ नैव लोके जन: कोऽपि, विद्यते यो न रञ्जितः । सरागकामदेवेन, वसन्ते तु विशेषतः ॥२७॥ उद्दामकाममत्तेभ-कुम्भनिर्भेदकेसरी । वसन्तसमये नूनं, निर्विकारो जिनेश्वरः ॥२८॥ नरचन्द्रो महासत्त्वो, राजसूनुः सुमानस: । आलोक्य तं पुरीलोकं, सारशृङ्गारशालिनम् ॥२९॥ स्फारचित्ततया स्पृष्ट-श्चिन्तां चक्रे विशालधी: । अस्मिन्नसारसंसारे, किं विलासैर्मनीषिणाम् ? ॥३०॥ १ BJPC । हर्षाकुला भृशम्-मु. ॥२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org