SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६४ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके सन्त: शिष्टजना: परोपकृतिकारिण: स्वव्यतिरिक्तजनोपकारविधायिन: ॥१११।। अथ सज्जनानामसाधारणं गुणमभिधित्सुराह अर्थाभावेऽपि दातारः, सत्यसन्धा निराकुलाः । सदारम्भा: सदा सन्तो, निर्भया व्यसनागमे ॥११२॥ कार्यशतेऽप्यसंमूढा, गूढमन्त्रा दिवानिशम्। परार्थमेव कुर्वन्ति, प्राणैरपि धनैरपि ॥११३॥ अर्थाभावेऽपि धनं विनापि दातारो दायका: सत्यसन्धा: सत्यभाषिणो निराकुला निरुत्सुका: सदारम्भा: सद्व्यापारा: सदा नित्यं सन्त: सज्जना:, निर्भया निर्भीका व्यसनागमे विपदागमे ॥११२॥ तथा कार्यशतेऽपि प्रयोजनशतेऽप्यसंमूढा अविलुप्तधियो गूढमन्त्रा अनभिज्ञातपर्यालोचा दिवानिशं रात्रिन्दिवं परार्थमेव परप्रयोजनमेव कुर्वन्ति विदधति प्राणैरुच्छ्वासादिभिर्दशप्रकारैः, धनैर्वितैः, अपिशब्दः सतां परोपकारकरणैकचित्ततां सूचयति, यत: किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि सन्तिष्ठता । वृद्धी येन विवर्धते व्रजति च, क्षीणे क्षयं सागरः । आ ज्ञातं परकार्यनिश्चितधियां कोऽपि स्वभावः सताम् । स्वैरङ्गैरपि येन यान्ति तनुतां दृष्ट्वा परं दुःखितम् ॥१॥ कै: कैर्वा न प्रशस्यन्ते परोपकृतिकारिणः । कुर्वन्तो जनतानन्दं नरचन्द्रकुमारवत् ॥११४॥ श्लोकोऽयं स्पष्टः ॥११४॥ नरचन्द्रकुमारदृष्टान्तश्चायं, तद्यथासमस्ति भारत वर्षे रामाजनविराजिता । सत्पुरुषसमाकीर्णा, विस्तीर्णत्रिकचत्वरा ॥१॥ श्रीवासुपूज्यसर्वज्ञ-सत्कल्याणसुरागमा । मन्दिरैर्मन्दरोदारै-मण्डिता च समन्ततः ॥२॥ उद्दामकाननोद्यानैः, सदा मण्डितभूतला । सौराज्येन सुखावासा, चम्पानाममहापुरी ॥३॥ केशेषु बन्धनं यस्यां, दण्डश्छत्रेषु श्रूयते । वाहनं वाजिनामेव, जने नैव विलोक्यते ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy