________________
अधिकार ४ / श्लोक १०७-१११ / सज्जनप्रशंसा
ददुर्धर्मे नरोत्तमा ददुरयच्छन् धर्मे पुण्यनिमित्तं नरोत्तमा उत्तमपुरुषाः, यथा लोकोपकाराय जनहितकृते पयो जलं पीत्वा आत्मसाद्विधाय पयोधरा मेघा इति ॥१०८॥
ननु किमिति सन्त: पुन: पुन: शस्यन्त इत्याह
कथं सन्तो न शस्यन्ते, हिमांशुकिरणोज्ज्वलाः । येषां सदुपकारेण, जायन्ते सुखिनो जनाः ॥१०९॥
कथं केन प्रकारेण सन्त: सज्जना न शस्यन्ते? न श्लाध्यन्ते ? हिमांशुकिरणोज्ज्वला: हिमांशुश्चन्द्रमास्तस्य किरणा: करास्तद्वदुज्ज्वला निर्मला:, येषां सदुपकारेण येषां सतां सुन्दरोपकृत्या जायन्ते भवन्ति सुखिन: शर्मभाजो जना लोका: तथाहि
उपकर्तुं प्रियं वक्तुं, कर्तुं स्नेहमकृत्रिमम् । सज्जनानां स्वभावोऽयं, केनेन्दु शिशिरीकृतः १ ॥१॥
अधुना सज्जनानां चन्दनचन्द्रयोश्च लोकानन्दविधायकत्वमाह
सज्जनाश्चन्दनं चन्द्रो, यदि न स्युर्महीतले । तदा दुःखोपतप्तानां, किं स्यान्निर्वृत्तिकारणम् ॥११०॥
सज्जना: शिष्टजनाश्चन्दनं मलयजं, चन्द्र: प्रसिद्धो यदि न स्युर्महीतले यदि चेन्न भवेयु: पृथ्वीतले, तदा तस्मिन् काले दुःखोपतप्तानामसातसङ्घातपीडितानां किंस्यान्निर्वृत्तिकारणं ? किं भवेत्स्वास्थ्यनिमित्तं ? न किंचिदित्यर्थ इति ॥११०॥
अथ रविकरैः सह सजनानां साम्यमुपदर्शयन्नाह
अज्ञानध्वान्तसन्तान-विध्वंसनपटीयसः । रवेरिव करा: सन्त:, 'परोपकृतिकारिणः ॥१११॥
अज्ञानमेव ध्वान्तमन्धकारं तस्य सन्तान: प्रवाहस्तस्य विध्वंसनं विनाशनं तत्र पटीयसोऽतिशयदक्षा अज्ञानध्वान्तसन्तानविध्वंसनपटीयसो, रवेरिव करा भानोरिव रश्मयः १परोपकृतिहेतव: BJPC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org