________________
१६२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
एतदेव भावयति-.
छायया सुखयन्त्यन्यं, सहन्ते स्वयमातपम् । पुष्पंन्ति च परस्यार्थे, फलन्ति च महाद्रुमाः ॥१०६॥
छायया सुखयन्त्यन्यं, छायया आतपाभावलक्षणया सुखयन्ति सुखिनं कुर्वन्त्यन्यं स्वव्यतिरिक्तं, सहन्ते स्वयमातपं, सहन्ते मर्षयन्ति स्वयमात्मना आतपमौष्ण्यं, पुष्पन्ति च परस्यार्थे, विकसन्ति च परस्यार्थे, आत्मव्यतिरिक्तस्य प्रयोजनाय, फलन्ति च फलवन्तो भवन्ति च परस्यार्थ इति सम्बन्धः, ते महाद्रुमा वृक्षा इति ॥१०६॥
ननु स्वोदरभरणमेव सङ्गतं, किमन्येनेत्याह
स्वोदरं भ्रियते कष्टा-दिनान्ते वायसैरपि । परार्थकरणासक्तो, यो जीवति स जीवति ॥१०७॥
स्वोदरं स्वकीयमुदरं जठरं भ्रियते पूर्यते कष्टादुःखाद्दिनान्ते दिनमध्ये वायसैरपि काकैरपि, परं ते जीवन्मृतका:, यतोऽभ्यधायि
जीवन्तो मृतकाः पञ्च, श्रूयन्ते किल भारते। दरिद्रो व्याधितो मूर्खः, प्रवासी नित्यसेवकः ॥१॥
अत: परार्थकरणासक्तः परप्रयोजननिष्पादनसमर्थो यो जीवति य: सत्पुरुषो जीवति प्राणान् धारयति स एव जीवति; शेषा जीवन्मृतका इति ॥१०७॥
साम्प्रतं सत्पुरुषाणामेव मेधैः सहोपमानमाह
केशेनोपाय॑ वित्तानि, ददुर्धर्मे नरोत्तमाः । यथा लोकोपकाराय, पय: पीत्वा पयोधराः ।।१०।।
क्लेशेनोपाय॑ वित्तानि क्लेशेन दुःखेनोपाळऽर्जयित्वा च वित्तानि द्रव्याणि, तथा च
अर्थानामर्जने दुःख-मर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org