________________
अधिकार ४ श्लोक / १००-१०५ / परोपकारमहिमा
१६१
ननु किमिति सन्त: स्तूयन्ते ? यतो धराधरादयोऽपि महत्त्वगाम्भीर्यादिगुणोपेता वर्तन्ते अत आह
धराधरा महीयांसो, गम्भीरा वारिराशयः । तथापि च समं शिष्टै-रौपम्यं लेभिरे न ते ॥१०३।।
धरां धरणीं धरन्तीति धराधरा: पर्वता हिमवदादयो महीयांसोऽतिशयमहान्त:, गम्भीरा वारिराशय इति, गम्भीरा अलब्धमध्या वारिराशयो जलाशया लवणसमुद्रादय:, यद्यप्येवंविधा एते तथापि, च समं शिष्टैरौपम्यं लेभिरे न ते इति, तथापि, अपिशब्दस्तेषां गुणाधिक्यसूचनार्थः, समं सार्धं शिष्टैः सद्भिः औपम्यं साम्यं लेभिरे लब्धवन्तो न नैव ते धराधरादय इति ॥१०३॥
ननु किमिति सन्तस्तेभ्योऽपि समतिरिच्यन्ते ? अत आह
येषां चित्तं च वित्तं च; वच: कायो विनश्वरः । परेषामुपकाराय, वेधसेह बिनिर्मितः ॥१०४॥
येषां सतां चित्तं मनो वित्तं धनं वच: वाणी कायो देहो विनश्वर: क्षणक्षयी परेषामुपकाराय अन्येषामुपकृतये वेधसेह विनिर्मितो वेधसा धात्रेह जगति विनिर्मित: कृत इति ॥१०४||
साम्प्रतं सत्पुरुषाणामेव शाखिभिः सह साम्यमुपदर्शयन्नाह
आत्मानं दुःस्थितं कृत्वा, परं कुर्वन्ति सुस्थितम् । यथा वृक्षास्तथा सन्तः, परोपकृतये रताः ॥१०५।।
आत्मानं स्वं दुःस्थितं कृत्वा दुःखितं विधाय परं कुर्वन्ति सुस्थितं, परमात्मव्यतिरिक्तं कुर्वन्ति विदधति सुस्थितं सुखितं यथा वृक्षास्तथा सन्त :, यथा येन प्रकारेण वृक्षा महीरुहास्तथा तेनैव प्रकारेण सन्त: सज्जना: परोपकृतये रता:, परेषामुपकृतिरुपकारस्तत्र रता आसक्ता इति ॥१०५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org