________________
१६०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
परोपकाराधिकारः ४
उक्तो गुरुभक्त्यधिकारस्तद्भक्तिकारिणा च परोपकार एव यत्नो विधेयोऽतोऽत्र परोपकारकारिणां प्रशंसोच्यते तत्र चायं श्लोक:
उत्पद्यन्ते विनश्यन्ति, कोटिशः क्षुद्रजन्तवः । परार्थबद्धबुद्धीनां, सतां पुण्यैः समुद्भवः ॥१००॥
उत्पद्यन्ते जायन्ते विनश्यन्ति म्रियन्ते कोटिशो बहुश: क्षुद्रजन्तवोऽसारसत्त्वाः, उत्तरार्धेन तु विपर्ययमाह सतां सत्पुरुषाणां पुण्यैः कुशलकर्मभि: समुद्भव: समुत्पाद: किंविशिष्टानां सतां ? [परार्थबद्धबुद्धीनाम्] परार्थे परप्रयोजने बद्धा दत्ता बुद्धिर्मतिर्यैस्ते तथा तेषामिति ॥१॥
सन्तश्च स्वल्पा एव भवन्तीति दर्शयन्नाह
परोपकारप्रवणा:, सदा स्वार्थपराङ्गखाः । क्वचित्क्वचिद्विलोक्यन्ते, विरला: सज्जना जनाः ॥१०१॥
[परोपकारप्रवणा:] परेषामुपकार उपकृतिस्तत्र प्रवणा: प्रहाः सदा सर्वदा स्वार्थपराङ्मुखा: स्वप्रयोजनविमुखास्त एवंविधगुणभाजो जना: सज्जना: सन्तश्च ते जनाश्च सज्जना: क्वचित्क्वचिद्विलोक्यन्ते प्रतिनियतदेशकालादौ, न सर्वत्र इति ॥१०१।।
यतस्त एवंविधा अत आह
जन्मापि च प्रमोदाय, शोकाय च तदत्ययः । अशिष्टानां तु लोकाना-मुभयस्मिन् विपर्ययः ॥१०२॥
जन्माप्युत्पादोऽपि प्रमोदाय हर्षाय, आस्तां वृद्धि: शोकाय च तदत्ययस्तेषां सतामत्ययो विनाश: शोकाय दु:खाय जनानामिति गम्यते । अशिष्टलोकाना मसज्जनानामुभयस्मिन् जीविते मरणे च विपर्ययो हर्षाभावशोकाभावलक्षण: ॥१०२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org