SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अधिकार ३ / श्लोक ९४-९६ / गुरुभक्ति करणोपदेशः १५७ एतां पूर्वभवां सेवां, जिनेनोक्तां सविस्तराम् । निशम्यैकस्य सञ्जातं, स्वजाते: स्मरणं क्षणात् ॥३०॥ ततोऽसौ प्रत्यये जाते, जात: संवेगभावित: । भावितश्च जिनोद्दिष्ट, प्रपेदे शासनं शुभम् ॥३१॥ तत्प्रतिपत्तिसामर्थ्या-च्छुभकर्मानुभावतः । सिद्धिं यास्यत्यसौ काले-ऽपरः संसारमेव हि ॥३२॥ ननु किमित्येक: सुलभबोधिको जातो नेतर इत्याह सर्वदा मानसे येषां, गुरुभक्तिर्गरीयसी। पुण्यानुबन्धिपुण्येन. तेषां जन्मेह गीयते ।।९४।। सर्वदा नित्यं मानसे चित्ते येषां पुण्यप्राणिनां गुरुभक्तिधर्माचार्येतिकर्तव्यतालक्षणा गरीयसी महती पुण्यानुबन्धिपुण्येन कुशलानुबन्धिकर्मणा तेषां जन्मिनां जन्म जातिरिह जगति गीयतेऽभिधीयते इति ।।९४।। साम्प्रतं पापानुबन्धिपुण्यवतां लक्षणमाह औदासीन्यं गुरौ येषा-मृद्धयादि च विलोक्यते । पापानुबन्धिपुण्येन, तेषां जन्म निगद्यते ॥१५॥ औदासीन्यमुदासीनता गुरौ धर्माचार्यविषये येषां जीवानामृद्धयादि च विलोक्यते सम्पदादि च दृश्यते पापानुऽबन्धिपुण्येनाऽकुशलानुबन्धिकुशलकर्मणा तेषां देहिनां जन्मोत्पत्तिलक्षणं निगद्यते प्रतिपाद्यते ॥९५।। साम्प्रतं पापानुबन्धिपापवतां लक्षणमाह अभक्तिर्मानसे येषां, गुरौ भवति भूयसी। पापानुबन्धिपापेन, तेषां जन्मेति लक्ष्यते ॥९६।। अभक्तिर्गुरुकर्तव्यतापरिहारलक्षणा मानसे हृदये येषा मपुण्यवतां गुरौ धर्माचार्यविषये भूयस्यतिशयमहती पापानुबन्धिपापेनाऽकुशलानुबन्ध्यकुशलेन तेषां पापात्मनां जन्मोत्पत्तिरित्येवं [लक्ष्यते ज्ञायत इति ॥९६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy