________________
१५६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
इहाभूतां नरौ कौचि-दन्योन्यं दृढसौहृदौ । युवानौ साहसोपेतौ, स्वचौर्यबलगर्वितौ ॥१॥ भोगलब्धौ समस्तेच्छा-पूरकद्रव्यवर्जितौ । तौ च चौर्यं व्यधासिष्टां, भोगवाञ्छाविडम्बितौ ॥२॥ दण्डपाशिकलोकेन, सम्प्राप्तावन्यदा तकौ । नीयमानौ च तौ तेन, वध्यस्थानं तपस्विनौ ।।३।। दृष्टवन्तौ मुनीन्मान्या-न्मान्यमानवसंहते: । साधूनां सत्क्रियां दृष्ट्वा, तयोरेको व्यचिन्तयत् ॥४॥ अहो धन्यतमा एते, मुनयो विमलक्रिया: । स्वकीयगुणसन्दोहा-ज्जगतां पूज्यतां गताः ।।५।। वयं पुनरधन्याना-मधन्या धनकाङ्गया। विदधाना विरुद्धानि, वध्यतां प्रापिता जनैः ॥६॥ चोर्येणोपहतात्मानो, यास्याम: कां गतिं मृता: ? । ही जाता दुःस्वभावेन, लोकद्वयविरोधकाः ॥७॥ तदेवं साधु साधूनां, वृत्तं वारितकल्मषम् । विपरीतमतोऽस्माक-मस्मात्कल्याणकं कुतः ? ॥८॥ अन्य: पुनरुदासीनो, भवति स्म मुनीनभि । गुणिरागादवापैको, बोधिबीजं न चापर: ॥९॥ ततस्तनुकषायत्वा-द्दानशीलतया च तौ । नरजन्मोचितं कर्म, लब्धवन्तावनिन्दितम् ॥१०॥ मृत्वा च तौ समुत्पन्नौ, कौशाब्यां पुरि वाणिजौ। जातौ चाऽनिन्दिताचारौ, वणिग्धर्मपरायणौ। जन्मान्तरीयसंस्कारा-दाबालत्वात्तयोरभूत् । अत्यन्तमित्रताभावो, लोकाश्चर्यविधायकः ॥१२॥ रोचते च यदेकस्य, तदन्यस्यापि रोचते । ततो लोके गतौ ख्याति-मेकचित्ताविमाविति ॥१३॥ तत: कुलोचितं कर्म, कुर्वतोर्यान्ति वासरा: । अन्यदा भुवनानन्दी, प्राप्तस्तत्र जिनेश्वरः ॥१४॥ भगवान् श्रीमहावीर, इक्ष्वाकुकुलनन्दनः । वाग्नीरैर्ज़नसन्ताप-शमनेऽम्भोदसन्निभः ॥१५॥ विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम् । तत्रासौ धर्ममाचख्यौ, सनरामरपर्षदि ॥१६॥ तमागतं समाकर्ण्य, कौशाम्बीवासिनो जना: । राजादयः समाजग्मु-र्वन्दितुं तत्पदाम्बुजम् ॥१७॥ तावपि श्रेष्ठिसत्सूनू, कुतूहलपरायणौ । जनेन सार्थमायातौ, जिननायकसन्निधौ ।।१८।। जिनस्तु देशयामास, मोक्षमार्ग सनातनम् । सत्त्वानां सर्वकल्याण-कारणं करुणापरः ॥१९॥ ततस्तयोर्वणिक्सूनो-रेकस्य तज्जिनोदितम् । श्रद्धानमार्गमायाति, भाव्यते च स मानसे ॥२०॥ स्फाराक्षो मस्तकं धुन्वन्, कर्णपर्णपुटार्पितम् । रोमाञ्चित: पिबत्युच्चै-र्जिनवाक्यं यथाऽमृतम् ॥२१॥ तदन्यस्य तदा भाति, वालुकाकवलोपम् । अन्योन्यस्य च तौ भावं, लक्षयामासतुस्तराम् ॥२२॥ व्याख्याभुव: समुत्थाय, जग्मतुर्भक्नं निजम् । तत्रैको व्याजहारैवं भ्रातस्त्वं भावित: किल ॥२३॥ जैनवाचा न चाहं भो-स्तदत्र किमु कारणम् । एकचित्ततया ख्याता-वावां लोके इयच्चिरम् ॥२४॥ इदानीमत्र सञ्जातं, विभिन्नं चित्तमावयोः । तदन कारणं किं स्या-दन्यो वक्ति स्म विस्मित: ॥२५॥ सत्यमेव ममाप्यत्र, विकल्प: सम्प्रवर्तते । केवलं केवली नूनं, निश्चयं न: करिष्यति ॥२६॥ स एव प्रश्नितोऽत्रार्थे, तद्याव: श्वस्तदन्तिके। एवं तौ निश्चयं कृत्वा, प्रातर्यातौ जिनान्तिके ॥२७॥ पप्रच्छतुस्तमाराध्य, विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन, साधवो वां प्रशंसिताः ।।२८॥ न चान्येन तदेतस्य, जातं बीजस्य सत्फलम् । सद्बोधे: पुनरन्यस्य, निर्बीजत्वेन नाऽभवत् ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org