________________
अधिकार ३ / श्लोक ९२-९३ / बोधिप्राप्तौ चौरयुग्मकथा
१५५
गुरुभिश्चाभयोऽभाणि, विहर्तारो वयं प्रगे। अभयोऽप्याह नो पूर्णो, मासकल्प: किमुत्सुका: ? ॥१७॥ कथितं कारणं तेन, भद्रं भावीति जल्पितम् । प्रातरेव समुत्थाय, पुञ्जिता राजवर्मनि ॥१८॥ रत्नानां कोटयस्तिस्रो, घोषितं डिण्डिमेन च । भो शृण्वन्तु जना: ! सर्वे, ह्यभयस्य प्रभाषितम्॥१९॥ लभ्यन्ते कोटयस्तिम्रो, वस्तुत्रयविसर्जनात् । श्रुत्वेदं मिलिता लोका:, सर्वेऽपि धनवाञ्छया ॥२०॥ किमत्र कथ्यतां वस्तु, वर्जनीयं धनार्थिना । मन्त्रिणा भणिता लोका:, सावधानैर्निशम्यताम् ॥२१॥ पानीयं न च पानीयं, यावज्जीवं सचेतनम् । अङ्गनावह्निसेवा च, वर्जनीया प्रयत्नतः ॥२२।। श्रुत्वेदं विरतो लोको, यातो धनपरामुखः । यत्रेदं त्रितयं त्याज्यं, तत्र किं रत्नराशिभि: ? ॥२३॥ रङ्कसाधु: समाहूत:, प्रोचे चाभयमन्त्रिणा। जलादित्रितयं त्यक्तं, त्वया किं नेति कथ्यताम् ? ॥२४|| यावज्जीवं मया त्यक्तं, द्रव्यतो भावतोऽपि च । यद्येवं ते मया.दत्ता-स्तिस्रोऽपि धनराशयः ॥२५॥ कामभोगप्रमुक्तस्य, किं कार्यं रत्नराशिभि: ? । रत्नराशियत्यागी, रोर: कथमयं जना: ! ॥२६॥ धन्यश्च पुण्यवानेष, वन्दनीयो महात्मभि: । पूजनीयो विशेषेण, सर्वजीवाभयङ्करः ॥२७॥ शिष्य: स्थिरीकृतो धर्मे, ह्यभयेन सुबुद्धिना । हसन्निवारितो लोकः, कलाकौशलशालिना ॥२८॥
इति धर्मस्थिरीकरणेऽभयकुमारदृष्टान्त: । पूर्वभवाभ्यासादेव प्राणिनस्तद्वासवासिता जायन्ते एतदेव दर्शयन्नाह
तिलानां यादृशो वास-स्तैलस्यापि च तादृशः । एवंविधा च सङ्गीता, जिनैर्बोधिर्भवान्तरे ॥९२।।
तिलानां धान्यविशेषाणां यादृशो वासो वासना, तैलस्यापि तिलविकारस्यापि तादृश एव तत्प्रकार एव, दार्टान्तिकमाह-एवंविधा चैतत्प्रकारा सङ्गीता प्रतिपादिता जिनैरर्हद्भिर्बोधि: प्रेत्यजिनधर्मावाप्तिर्भवान्तरेऽग्रेतनजन्मनि ॥९२॥ अत्रैवार्थे दृष्टान्तमाह
चौरयुग्ममिह ज्ञातं, वासनाविषये मतम् । एकस्य सुलभा बोधि-द्वितीयस्य च दुर्लभा ॥१३॥
चौरयुग्मं चौरद्वन्द्वमिह प्रस्तुते ज्ञातमुदाहरणं वासनाविषयें संस्कारगोचरे मतं सम्मतम् एकस्य गुणबहुमानिन: सुलभा सुप्रापा बोधिर्जिनधर्मप्राप्ति: द्वितीयस्य गुणमत्सरिणो दुर्लभा दुष्प्रापा बोधिरिति वर्तते ॥९३।। चौरयुग्मज्ञातं त्वाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org