________________
१५४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
पृष्टा च आर्ये ! किं करोषि ? तयोक्तं निश्चितस्त्वं परपीडां न जानासि गर्भवत्यहं प्रसवो भविता। तत्र च धृतगुडादिना प्रयोजनं, तच्च कपर्दकैर्विना न सम्पद्यते, तदर्थं चायमारम्भः । राज्ञोक्तमहं ते सर्वं करिष्यामि, आगच्छ मम गृहे, आगता धृता च विविक्ताश्रये, प्रसूता देवमायया, कारितं भूभृताऽऽप्तस्त्रिया सूतिकर्म, स्वयमपि समीपस्थो न कस्यापि प्रवेशं ददाति, प्रयुक्तावधिना च ज्ञातं देवेन यादृशोऽयं सुरस्वामिना वर्णितस्तादृश एव महात्मा, [ततोऽसौ] संयतीस्वरूपमुपसंहृत्य चलकुण्डलाभरणभूषितशरीरो देवो बभूव । अवादीच्च यादृशस्त्वं सौधर्मे शक्रेणानेकसुरसमक्षं निश्चलभक्तिः श्रेणिक: सर्वज्ञधर्मे देवेनापि चालयितुमशक्यस्तत्सत्यमेव, नात्र विचार:, तुष्टोऽहं तावद् गृहाण ममाष्टादशसरमष्टादशचक्रं च हाररत्नं गोलकयुगलं च । एवं तदुभयमपि दत्त्वा देवलोकं जगाम देवः । श्रेणिकोऽपि प्रीतिपात्रमिति कृत्वा हाररत्नं चेल्लणायै ददौ गोलकयुगलं च सुनन्दायै, तया च क्रोधानलदन्दह्यमानचित्तया गोलकयुगलं सभास्तम्भे प्रस्फोटितम् एकस्माद्गोलकात्कुण्डलयुगलं विनिर्गतं द्वितीयाच्च देवदुष्यवस्त्रयुगलं, प्रहृष्टचित्तया च गृहीतं सुनन्दयेति गतं श्रेणिकज्ञातम् अधुनाऽभयकुमारज्ञातमुच्यते
बभूव दुर्गत: कोऽपि, पुरे राजगृहाभिधे । नि:सन्तानो निराधारो, भिक्षाचरशिरोमणिः ॥१॥ काष्ठभारवह: क्वापि, तृणभारवहोऽपि च । जलाहरणकारीति, लोको वक्ति यदृच्छया ॥२॥ कण्डक: पाशकश्चैव, पादप्रक्षालकस्तथा । कुकर्म कुरुते सर्वं, पुरे तत्र गृहे गृहे ।।३।। इतश्च विहरन् ग्रामा-नुग्रामं शिष्यसंयुतः । धर्मधामा दयासारो, विश्रुत: श्रुतकेवली ॥४॥ शिष्य: श्रीवीरनाथस्य, पञ्चमो गणनायक: । राजगृहे समायात:, परोपकृतिहेतवे ॥५॥ अवग्रहमनुज्ञाप्य, तस्थौ तत्र गणाधिप: । वन्दनार्थं समायाता, राजा पोराश्च भक्तित: ॥६॥ प्रारब्धा देशना रम्या, हृदयानन्दकारिणी । पपु: कर्णपुरैः सर्वे, पीयूषमिव देहिनः ॥७॥ अत्रान्तरे समायात:, कान्तारात्काष्ठवाहक: । काष्ठभारं क्षितौ क्षिप्त्वा, चिन्तयामास मानसे ॥८॥ नेहलोको न वा लोको-ऽपरोऽपि मम विद्यते । अजागलस्तनस्येव, मम जन्म निरर्थकम् ॥९॥ एवं वितय॑ च रङ्को, वन्दनार्थं समागतः । वन्दितो गणभृद्भक्त्या, श्रुतो धर्मस्तदीरित: ॥१०॥ भावितो मानसे स्वस्य, क्षयोपशमयोगत: । प्रवर्धमानसंवेग:, प्रोवाच गणनायकम् ॥११॥ यूयं नाथा अनाथानां, विधायानुग्रहं मम । यद्यस्ति योग्यता मां, तदा दीक्षा प्रदीयताम् ॥१२॥ भव्योऽयमिति विज्ञाय, दीक्षितस्तत्क्षणादसौ । जग्राह द्विविधां शिक्षा, ग्रहणासेवनात्मिकाम् ॥१३॥ गुरूपदेशतस्तत्र, विजहार गृहे गृहे । भक्तपानकृते नित्यं, गीतार्थमुनिभिः सह ॥१४॥ काष्ठभारवहो वारि-तृणभारवहोऽपि च । कण्डक: पीशकश्चैव, पादप्रक्षालकस्तथा ॥१५॥ इत्यादिकटुवाक्यानि, जनो जल्पति नर्मणा । अप्रीतिकथनं चक्रे, गुरुभ्यो रङ्कशिष्यकः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org