________________
अधिकार ३ / श्लोक ९१ / धर्मदृढतायां श्रेणिकोदाहरणम्
१५३
तदहो रौहिणीयकचौरस्य वक्तव्यतां श्रुत्वा वसुसारस्य श्रेष्ठिनन्दनस्य च दृष्टान्तं निशम्य नि:शेषरागादिदोषशत्रुसङ्घातविघातकारिण्यपारसंसारपारावारागाधमध्यनिमज्जजन्तु सन्तानसमुत्तरणविधायिनि स्वर्गापवर्गसंसर्गसौख्यसन्दोहसम्पादके श्रीसर्वज्ञवचने तथैकान्ताप्तवचने च श्रद्धानं विधेयम्, तदनुसारेण च सदनुष्ठाने प्रवृत्ति: कार्या, इत्थं च कुर्वतां भव्यानां व्युच्छिद्यन्ते रागादय:, क्षीयन्ते क्लिष्टकर्माणि, प्रवर्धन्ते पुण्यप्रकृतयः, सिद्धयन्ते सकलसमीहितानि, ततश्च निरतिचारचारित्रसम्पत्त्या सकलकर्मक्षयलक्षणो मोक्ष: प्राप्यत इति ॥८७॥
तथा यदुक्तं-सदाचारप्रमत्तानां, मतमेकान्तशिक्षणम् इति तदृष्टान्तद्वारेणाह
अत्रार्थे श्रेणिको ज्ञात-मभयश्च महामतिः । धर्मदृढमना आढ्यो, द्वितीय: स्थिरकारकः ॥११॥
धर्मे सम्यक्त्वादिमूलगुणोत्तरगुणरूपे - पुण्यस्कन्धे दृढमना निश्चलचित्त आढ्य: श्रेणिकाभिधानो नृपः द्वितीयस्तस्यैव पुत्रोऽभयकुमारनामा स्थिरकारको धर्मे चलचित्तानां स्थैर्यसम्पादकः, ज्ञाते च यथाक्रममिति
धर्मदृढतायां श्रेणिककथा
समस्ति मगधालङ्कारकारकं साधुसाध्वीश्रावकश्राविका चतुर्विधसङ्घपदप्रचारालङ्कतत्रिकचतुष्कचत्वरं राजगृहं नाम पुरवरम् तत्र श्रीमन्महावीरपादपद्ममधुकर: क्षायिकसम्यक्त्वदर्शनी जिनशासने निष्प्रकम्पमानसो हैहयान्वयसम्भव: श्रेणिको नाम महाराजोऽभूत्, स चान्यदा सौधर्मदेवलोके सुधर्मायां सभायां शक्रसिंहासने आसीनेनानेकसुरकोटीपरिवृतेन शक्रेण प्रशंसित:, अहो यादृशी श्रेणिकस्य नैर्ग्रन्थे प्रवचने निश्चला भक्तिः सुरैरपि क्षोभयितुमशक्या न तादृश्यन्यस्य । एतच्च समाकघैकः सुर: शक्रवचनमश्रद्दधानो राजगृहनगरमाजगाम । कृत्वा च वैक्रियं साधुरूपं नगरनिर्गमासन्ने महाह्रदे जालकरो मत्स्यान् जग्राह, स च तेनान्तिकं गच्छता श्रेणिकेन ददृशे, अहो ! शारदीनशशधरसङ्काशं सर्वज्ञशासनमेष मलिनीकरोतीति वितळ परिमितसहाय: स तत्समीपमगमत् भणितश्चासौ राज्ञा भो भद्र ! किमिदं क्रियते ? तेनोचे मत्स्यग्रहणं, किमर्थं ? संयमोपग्रहार्थं नास्ति मे कम्बल: तेन च विना प्रदीपप्रभा-विद्युद्वारिधारासचित्तरजश्च निवारयितुं न शक्यते, मत्स्यान् वीथ्यां विक्रीय तद्वेतनेन कम्बलं ग्रहीष्यामि । राज्ञोक्तमलमनेन दुर्व्यवसायेन, अहं ते कम्बलं दास्यामि, प्रतिपन्नमनेन, दत्तश्च कम्बल:, प्रतिनिवृतश्च राजा हट्टमार्गेण, प्रत्यापणं संयती आपन्नसत्त्वा कपर्दकान् याचयन्ती दृष्टा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org