________________
१५२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
मौनस्थितेन तेनापि, कर्तव्यं सकलं कृतम् । द्विगुणं वेतनं दत्त्वा, भृत्यवर्गो विसर्जितः ।।८०॥ गृहशालापणा: सर्वे, कृतास्तालकरक्षिता: । जल्पनुपेक्षितो लोकः, पत्रकं पुरत: कृतम् ।।८।। अन्यदा नक्तमेकान्ते, कृते छगणपुञ्जके। ज्वलज्ज्वलनसम्पर्का-द्रत्नीभूते मनोरमे ॥८२॥ स्थालकं रम्यरत्नानां, भृत्वा भूपाय ढौकितम् । पृष्टेन कथितं सर्वं, रञ्जितो हृदि भूपतिः ॥८३।। मुद्रा राजवशा दत्ता, महामन्त्रिपदे कृत: । सम्मत: सर्वलोकानां, यथा शरदि चन्द्रमा: ॥८४॥ सुकृतं तत्कृतं तेन, यज्जल्पितं तथैव तत् । अमात्यपदमारूढः, परं राजायते गुणैः ॥८५॥ सर्वज्ञशासनासक्तो, भक्त: सर्वज्ञपादयोः । सुसाधुपुरत: शुद्ध-सिद्धान्तश्रवणे रत: ॥८६॥ कालमुल्लङ्यामास, धर्मस्थो वसुसारकः । अयं चोपनय: कार्यः, श्रेष्ठी तीर्थकरोपमः ।।८७॥ वसुसारसम: सङ्घ:, पत्रकं च जिनागम: । दीनारलक्षतुल्यं हि, मानुष्यत्वं जगुर्जिना: ॥८८॥ मूलमेतदशेषाणा-मुत्तरोत्तरसम्पदाम् । भस्मभाण्डसमं ज्ञेय-मशुचीदं कलेवरम् ।।८९॥ अविवेको महासिन्धुः, सद्धर्म: पोतसन्निभ: । द्वीपोपमश्च विज्ञेयः, प्राय: सद्गुरुसङ्गमः ॥९०॥ शुभध्यानं ज्वलद्वह्निः, कर्म गोमयसन्निभम् । तद्दाहे धर्मरत्नानां, ज्ञानादीनां समुद्भवः ॥९१।। स्वर्गापवर्गसौख्यानि, भुज्यन्ते तत्प्रसादत: । एवमुपनयो ज्ञेयो, दृष्टान्तेऽत्र विशारदैः ॥९२॥ तदेवं वसुसारस्य, कुर्वाणस्य पितुर्वच: । जाता समीहिताऽशेष-कल्याणवरमालिका ॥१३॥
इति वसुसारकथानकं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org