________________
अधिकार ३ / श्लोक ८९-९० / वसुसारकथा
१५१
नक्तं तत्र समागत्य, निषीदन्ते गवां गणा: । तद्विष्टां छाणिकां कृत्वा, भियते यानपात्रकम् ॥५२।। निजस्थाने समागत्य, भियन्ते च गृहापणा: । समये चाग्निसम्पर्का-ज्जायन्ते रत्नराशयः ॥५३॥ हन्त तावदुपायोऽयं, सामग्री दुर्लभा पुन: । बुद्धयस्ति विभवो नास्ति, वाणिज्यं क्रियते कथम्? ॥५४॥ एवमुद्घोषयामास, प्रत्यहं शून्यमानस: । पुररथ्यासु सर्वासु, राजमार्गेण सन्ततम् ॥५५॥ पुरान्निर्गम्यमानेन, ह्यन्यदा धरणीभृता । दृष्टः पृष्टश्च तेनापि, पठितं भूपतेः पुरः ॥५६॥ हन्त लब्धो मयोपाय:, सामग्री तच्च दुर्लभा । बुद्ध्यस्ति विभंवो नास्ति, वाणिज्यं क्रियते कथम् ? ॥ राजाह कियता कार्य, श्रेष्ठिपुत्र ! धनेन ते । सोऽवक्शतसहस्रेण, दीनाराणां महीपते ! ॥५८॥ दत्तो भूपेन लक्षोऽपि, गृहीत्वा गृहमागत: । गमनार्थं समारब्धा, सामग्री कर्तुमञ्जसा ॥५९।। सम्बलानि विधीयन्ते, नानारूपाणि भूरिशः । जलेन्धनाद्रिसामग्री, सर्वापि प्रगुणीकृता ॥६०॥ धीवराश्च समाहूता:, पृष्टा: प्रीतिपुरस्सरम् । जानीथ गौतमं द्वीपं, तैरूचे विद्यस्तं वयम् ॥६१॥ परं निर्मानुषो द्वीप:,किं गतैस्तत्र साध्यते । श्रेष्ठचाह किं विचारेण, गृह्यतामीप्सितं धनम् ॥६२।। प्रतिपन्नं धीवरैः सर्वं, पोतोऽपि प्रगुणीकृतः । भियते भस्मभाण्डेन, लोकाश्चोपहसन्ति तम् ॥६३।। साधके तिथिनक्षत्रे, पूजयित्वा महोदधिम् । वसुंसार: पोतमारूढो, मुक्त: पोतोऽपि धीवरैः ॥६४॥ वेगेन गन्तुमारब्धः, पृष्टत: पवनेरित: । मासै: कतिपयैरेव, द्वीपं सम्प्राप गौतमम् ॥६५॥ मुक्ता नगरास्तत्र, पोत: स्थिरतरीकृत: । विज्ञप्तो धीवरैः श्रेष्ठी, द्वीपोऽयं गौतमाभिधः ॥६६।। पोतादुत्तार्य तत्राथ, राशयो भस्मन: कृताः । विकीर्णं सर्वतस्तच्च, गवामावासभूमिषु ॥६७॥ यथास्थानं गते लोके, श्रेष्ठी जातो निराकुल: । एकं छगणमेकान्ते, दग्धं प्रत्ययहेतवे ॥६८॥ पर्यायान्तरमापन्नं, जातं रत्नमनुत्तमम् । तत: सञ्जाततोषेण, छगणानां राशय: कृता: ॥६९॥ शोषितास्तापयोगेन, भृत: पोत: समन्तत: । समये स्वयमारुह्य, मुक्त: पूजापुरस्सरम् ।।७०॥ गरुत्मानिव वेगेन, निजं स्थानमुपागतः । मुक्ता नगरा मिलितो, लोक: सर्वोऽपि कौतुकी ॥७१॥ वसुसारोऽपि वेगेन, राजान्तिकमुपागतः । वद श्रेष्ठिन्! किमानीतं, छगणानीति जल्पितम् ॥७२।। अन्त:प्रहसता राज्ञा, प्रकाशमुदितं वच: । उच्छुल्कमुत्करं भाण्डं, कुरुष्व क्रयविक्रयम् ॥७३॥ महाप्रसाद इत्युक्त्वा, वसुसारो गतो गृहम् । पोतादुत्तार्य सर्वाणि, भृत्यकर्मकरैर्नरैः ॥७४।। छगणानि गृहस्यान्त-मुमोच वसुनन्दनः । [हदि प्रमोदसंयुक्तो, हस्यमानो जनैस्तथा] ॥७५॥ भस्मभाण्डं महामूल्यं, नीतमेतेन गच्छता। आगच्छता समानीतं, प्रतिभाण्डं करीषकम् ।।७६।। अहो वाणिज्यकौशल्य-महो बुद्धिरनिन्दिता । दत्तो निजे कुलेऽनेन, दारिद्रस्य जलाञ्जलि: ।।७७॥ इत्येवं हसते लोको, गृहेऽपि स्वजना निजा: । श्यामितास्या वदन्त्येवं, मा विनाशय मन्दिरम् ॥७८॥ छगणानां बहिः स्थानं, कर्तुं पुत्रक ! सङ्गतम् । न शक्यते मुखं धा, लोकानां हसतां बहिः ॥७९॥ १जानीत-BJP॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org