________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
I
1
सम्भाषयामि निःशेष-बन्धुमित्रजनं निजम् । कुटुम्बं च यथास्थाने, सर्वं संस्थापयाम्यहम् ॥ २४॥ तत्त्वं च वसुसारस्य, समाख्यामि वसूद्भवम् । इत्यालोच्य निजे चित्ते, सञ्जाते व्यजने गृहे ॥२५॥ वसुना वसुसारस्य, कर्णे तत्त्वं निवेदितम् । क्रमागता मया मुक्ता, लक्ष्मीर्वत्स ! तव गृहे ॥२६॥ चञ्चलैषा स्वभावेन, भवन्तं यदि मुञ्चति । तदा भूमिगृहस्यान्त-र्मञ्जूषादत्ततालक: तालकः (का) ।। तदन्तर्लिखितं पत्रं, मयैवास्ते सविस्तरम् । तदादाय रह: स्थाने, वाचनीयं शनै: शनैः ॥ २८ ॥ तदर्थो हृदये धार्यः, कर्तव्यं च क्रमागतम् । उपहासपरो लोको, यत्किञ्चन ' वदेत्पुनः ॥ २९ ॥ तद्वचो हृदयेनैव, कर्तव्यं हितमिच्छता । प्रतिपन्नमनेनापि तद्वचनं तथैव च ॥ ३० ॥ सुपुत्राणां सुशिक्षाणां, नाप्तवाक्ये विचारणा । ततोऽसौ दर्शितो राज्ञः, स्वपदे च निवेशितः ॥३१॥ बद्ध भातले पट्टो, दत्तं छत्रं महीभुजा । प्रथमासनिको जातः, सर्वेषां वणिजामयम् ||३२|| परिवारोऽपि सन्तुष्टः, पैत्र्यं पदमधिष्ठितम् । वसुना वसुसारस्य, दत्ता शिक्षा यथोचिता ॥ ३३ ॥ ततः स्वधर्मकर्माणि, चकार चतुराशयः । द्रव्यबीजं विधानेन, सप्तक्षेत्र्यां नियोजितम् ||३४|| ततः समुद्धृतं शल्यं, क्षमितक्षामितं कृतम् । कृता देवगृहे पूजा - मारिश्चोद्घोषिता पुनः २ ॥ ३५ ॥ निर्ममत्वं धृतं चित्ते, पञ्चधाराधना कृता । सर्वाहारनिरोधश्च, स्वीकृतो गुरुसाक्षिकः ||३६|| धर्मध्यानसमारूढो, मृत्वा स्वर्गं जगाम सः । विधाय मृतकार्याणि, स्वपितुर्बन्धुभिः सह ||३७|| गतशोकः स्वकार्याणि, कालेनासौ व्यचिन्तयत् । सम्मत: पुरलोकस्य, भूपस्यापि स सम्मतः ||३८|| सम्मतो राजलोकस्य, बन्धुवर्गस्य सम्मतः । गुणानुरागतो रक्तास्तद्गुणग्रहणोद्यताः || ३९ || वसुसारममन्यन्त, वसुसारमिति प्रजा: । एवं सरति संसारे, ह्यन्तराये पुरा कृते ॥ ४० ॥ समीपमागते लक्ष्मी-र्जगाम तस्य मन्दिरात् । पराभूतिः समायाता, दारिद्येण समन्विता ॥४१॥ सम्प्राप्यावसरं को वा, जृम्भते न महीतले । सानुकूले विधावासी - दनुकूलं नृपादि यत् ॥४२॥ प्रतिकूले च तत्सर्वं, वर्तते मे प्रतिकूलम् । एवं सविषादचित्तेन, वसुसारेण चिन्तितम् ॥ ४३ ॥ अहो विधिप्रसादेन, दृष्टं जन्मद्वयं मया । पुरा धनेन संयुक्तं, साम्प्रतं धनवर्जितम् ॥४४॥ जात्यादिगुणसम्पूर्णं, परमार्थेन वर्जितम् । तृणादपि लघुं लोको, मन्यते निर्धनं जनम् ||४५|| जात्यादिभिर्गुणैर्मुक्तं, परलोकसमाश्रितम् । मेरोरप्यधिकं लोको, मन्यते सधनं जनम् ॥४६॥ ! क्षीणोपायेन तेनेदं, संस्मृतं पितृभाषितम् । उद्घाटिता च मञ्जूषा, पत्रकं स्वकरे कृतम् ॥४७॥ वाचितं च रह:स्थाने, मन्दनादं प्रमोदतः । हन्त लब्धो मयोपायः, सामग्री तस्य दुर्लभा ॥ ४८ ॥ स्वस्त्यस्ति गौतमो द्वीप:, समुद्रान्तर्महालयः । जलाविलो महाकच्छ:, सुरभीणां समाश्रयः ॥४९॥ क्षेत्रानुभावतस्तत्र, तृणानामनुभावतः । अग्निसम्पर्कतस्तेषां, रत्नं हि छगणं भवेत् ॥५०॥ यानपात्रमतो भृत्वा, भस्मनस्तत्र गम्यते । वितीर्यते च सर्वत्र, भूतले भस्म भूरिशः ॥ ५१ ॥ १ भविष्यति - BJPC || २ पुन: BJPC नास्ति ॥
१५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org