________________
अधिकार ३ / श्लोक ८८-९० / वसुसारकथा
तदेवं श्रीमन्महावीरवर्धमानस्वामिनः सत्कं वचनमाकर्ण्य रौहिणीयकस्य समीहितार्थसम्प्राप्तिरभवत् तदन्यस्यापि पित्रादेरेकान्तेनैवाप्तस्य गुरुस्थानीयस्य लोकद्वयहितं वचः श्रोतव्यं, श्रुत्वा च तदनुसारेण प्रवर्तितव्यम्, एवं च वर्तमानानां समस्तसमीहितार्थप्राप्तिरुपजायते पितुर्वचनानुसारतः प्रवर्तमानस्य वसुसारस्येव, अथ कोऽयं वसुसार इत्याशङ्कायां कथानकं कथ्यते
बभूव भुवनख्यातं, गम्भीराख्यं महापुरम् । अनेकनैगमस्थानं, रम्ये तीरे महोदधेः ॥१॥ यत्र वेलाकुलं भाति, यानपात्रशतैरलम् । शुभसितपटाकीर्णैः, शैलैरिव समन्ततः ॥२॥ यत्र मुक्ताफलव्राताः, शङ्खव्राताश्च निर्मलाः । स्थाने स्थाने विलोक्यन्ते, फेनपुञ्जा इवोदधेः ॥३॥ तत्र राजाभवत् श्रीमान्, श्रेयोधाम पदं श्रियाम् । विक्रमाक्रान्तभूपीठः, सिंहविक्रमसञ्ज्ञितः ॥४॥ अपरित्यक्तमर्यादो, वाहिनीशतसेवितः । अनेकगुणरत्नौघ-युक्तः पतिरिवाम्भसाम् ||५|| 'श्रेष्ठी चाऽभवत्तत्र, श्रेष्ठकार्यविधायकः । वसुर्नाम्ना यशोधामा, विश्वश्रीकुलमन्दिरम् ||६|| सदाचारो गुणाधारो, धीरो धर्मपरायणः । कृती सत्यप्रतिज्ञश्च शुचिर्धीमान् सतां मतः ॥७॥ वसुकान्ता जनी तस्य, जनानन्दविधायिनी । प्रीतिपात्रं गुणक्षेत्रं, दानदाक्षिण्यमन्दिरम् ॥८॥ तयोर्भुञ्जानयोः सौख्यं, शब्दादिविषयोद्भवम् । कालक्रमेण सञ्जातः, सत्पुत्रस्तुष्टिकारकः ॥९॥ महामहोत्सवेनाथ, तस्य नाम प्रतिष्ठितम् । वसुसार इति ख्यातं, निःशेषैर्बन्धुभिर्मुदा ॥ १०॥ अथासौ वर्धते बालो, लाल्यमानो यथेप्सितम् । सम्पद्यमाननि:शेष - समीहितमनोरथः ॥११॥ कालक्रमेण पित्रासौ, ग्राहितः सकलाः कलाः । यौवनं च समारूढ - स्तरुणीजनमोहनम् ॥१२॥ समानकुलशीलायाः, कन्यकाया महर्द्धितः । वसुन्धरेतिसञ्ज्ञायाः स पित्रा ग्राहितः करः ||१३|| अथैवं परमप्रीत्या, सार्धं पुत्रेण तिष्ठतः । श्रेष्ठिनो वसुसञ्ज्ञस्य, वव्रजुर्भूरिवासराः || १४ || अन्यदा श्रेष्ठिना पुत्रो, वृद्धभावमुपेयुषा । शिक्षितः पेशलैर्वाक्यै - रेवं पुत्रहितैषिणा ||१५|| यथा वत्स सदा कालं, कार्या भक्तिर्जिनेश्वरे । सेव्यास्तदुक्तसिद्धान्त - वेदिनः साधवः सदा ॥ १६ ॥ श्रोतव्यं च वचो जैनं, हितं पथ्यं तदन्तिके । तथा जीवदया कार्या, वार्या दुर्जनसङ्गतिः ||१७|| वक्तव्यं च वचः सत्यं, त्याज्यं चौर्यं च दूरतः । पारदार्यं परित्याज्यं, भाव्यं नात्यन्तलोभिना || १८ || न भोक्तव्यं निशायां च मांसमद्यादिकं तथा । तथा पुत्र विनीतेन, भाव्यं गुरुजने त्वया ॥ १९ ॥ दाक्षिण्यं च सदा कार्यं, सर्वस्वजनबन्धुषु । इत्यादि श्रेष्ठिनो नित्यं, शिक्षयतः स्वनन्दनम् ॥२०॥ वसुसारं गुणाधारं, गतः कालः कियानपि । अन्यदा च शरीरेऽस्य, व्याधिर्जातः सुदारुणः ||२१|| दुःसाध्यः सर्ववैद्यानां, तत: श्रेष्ठी व्यचिन्तयत् । अहो मदीयमत्यन्तं सञ्जातं विधुरं वपुः ॥२२॥ नाधुना मुच्यते मृत्योः, करोमि स्वहितं ततः । ददामि निजकं वित्तं, धर्मस्थाने यथोचितम् ॥२३॥ १ BJPC | श्रेष्ठिवर्योऽभ मु. ॥
Jain Education International
१४९
For Private & Personal Use Only
www.jainelibrary.org