SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके सर्वेषां धर्मसद्धर्मकार्याणि, कुर्वतोऽस्य सहायकाः । स्वत एव वयं सुतरां, युष्मदादेशनोदिताः ॥ १६७॥ इत्युक्त्वा स्वकरे कृत्वा, गच्छताभयमन्त्रिणा । सगौरवं गृहे नीतो, रौहिणीयकतस्करः ॥१६८॥ आतिथेयीं क्रियां सर्वां, पादप्रक्षालनादिकाम् । विधाय समये स्नपितो, वस्त्राणि परिधापितः ॥ १६९ ॥ भोजनान्तरकालं च, विश्रान्तोऽभयमन्त्रिणा । निर्वेदकारणं पृष्टः कथितं तेन यथास्फुटम् ॥ १७० ॥ अभय: प्राह भो भद्र ! चित्तशुद्धिपुरस्सरम् । प्रव्रज्याग्रहणं श्रेयः, सुखकारणम् ॥ १७९॥ यदत्र परसम्बन्धि, चित्तमालिन्यकारणम् । अदत्तं स्वीकृतं सर्वं तत्तस्यैव 'समर्पय ॥ १७२ ॥ अज्ञातस्वामिकं द्रव्यं, तथा विस्मृतनायकम् । मृतनष्टधनं सर्वं तच्च राज्ञे प्रदीयताम् ॥१७३॥ विशुद्धात्मा ततस्तूर्णं, कुरु धर्मं यथोदितम् । प्रतिपन्नमिदं तेन, क्रियया च कृतं द्रुतम् ॥ १७४|| ततोऽभयकुमारेण, कृतनिष्क्रमणक्रियः । महामहोत्सवेनैष, वीरनाथेन दीक्षितः || १७५।। ततोऽसौ श्रमणो जातो, विनयाभरणभूषितः । सुदुष्करतपश्चारी, सर्वजीवदयापरः ।।१७६॥ नि:सङ्गो निर्ममः शान्तः, प्रसिद्धो जगतीतले । [ रौहिणीयो मुनीशश्च, विजहार यथागमम् ] ॥१७७|| उक्तं च- कूरावि सहावेणं, विसयविसवसाणुगावि होऊण । जिणवयणभावियमणा, तेलोक्कसुहावहा होंति ।। १७८ ।। १४८ क्षमादिब्रह्मपर्यन्तं, धर्मं कृत्वा सुनिश्चलम् । उत्पाद्यः केवलज्ञानं जगाम परमं पदम् || १७९|| अत्रैव जीवितं दत्तं, परत्र परमं पदम् । रौहिणीयकचौरस्य, श्रीवीरवचसा स्फुटम् ॥१८०॥ इति रौहिणीयककथानकं समाप्तम् ।। १ समर्पित: -BJPC Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy