________________
अधिकार ३ / श्लोक ८८-९० / जिनवाणिश्रवणे रौहिणेयचोरकथा
१४७
तेनापि सादरं दृष्टो, गौरवेण धृत: क्षणम् । सादरं प्रीतिवृद्धयर्थ-मभयेन निमन्त्रित: ॥१३९॥ नीतस्तेन निजे गेहे, मद्यपानं च कारित: । मत्तश्च न तदा किञ्चि-जानेऽहं गतचेतन: ॥१४०॥ ततो मृत्वा सुरो जातो, भवदीयविमानके । सम्पादयत सर्वाणि, मङ्गलानि द्रुतं द्रुतम् ॥१४१॥ कालक्षेपो न कर्तव्यः, कार्याणां त्वरिता गतिः । ततोऽभयकुमारेण, सर्वमेतन्महीभृते ॥१४२॥ कथितं न भवत्येव, तातायं रौहिणीयक: । अज्ञानेन च किं तेन, मारितेन तपस्विना ॥१४३॥ दुःखेन लभ्यते तात !, मानुष्यं जन्म जन्तुना । राजाह रोचते यत्ते, तत्कुरुष्व यदृच्छया ॥१४४।। ततोऽभयकुमारेण, स्वभृत्या भणिता यथा । रेरेऽर्धचन्द्रकं दत्त्वा, गृहीत्वा दक्षिणे करे ॥१४५॥ निष्कासयत तं तेऽपि, कृत्वैवं तं बभाषिरे । मुक्तोऽसि मन्त्रिणा भद्र, ! गच्छेत: सत्वरैःपदैः ॥१४६।। पुनर्जातमिवात्मानं, मन्यमानोऽथ सोऽपि हि । अदददक्षिणे दृष्टिं, वामत: पृष्टतस्तथा ॥१४७॥ द्रुतं द्रुतं विनिर्गत्य, व्यजनं देशमाथ्रितः । ततश्च चिन्तयामास, चौर: संवेगमागतः ॥१४८॥ ते धन्या येऽत्र शृण्वन्ति, वच: सर्वज्ञभाषितम् । यदनिच्छत एवेह, श्रोतुं मे कर्णयोर्गतम् ॥१४९॥ जीवितव्याय सञ्जातं, त्राणमन्येन नो कृतम् । नमः श्रीवीरनाथाय, वीरितान्तरशत्रवे ॥१५०॥ सुरासुरनमस्याय, संसारावनिसेतवे । पूर्वापराविरुद्धाय, जीवानां शुद्धिहेतवे ॥१५१॥ संसारसौधदीपाय, श्रीवीरवचसे नम: । यतोऽद्य कष्टयोगेन, यममुखाद्विनिर्गतः ॥१५२॥ तत्किं [स्यात्] सर्वदा क्षेमं, बिले प्रक्षिपतां करम् ॥१५२all चराचरजगन्नाथः, पुत्रीयितजगत्त्रय: । त्राणं मे श्रीमहावीरो, यावज्जीवमत:परम् ॥१५३।। इति संवेगमापन्नो, भवानिर्विण्णमानस: । चचाल श्रीमहावीर-पादवन्दनहेतवे ॥१५४|| वन्दित्वा त्रिजगन्नाथं, निषण्ण: शुद्धभूतले । भणितं किं जगन्नाथ!, ममास्ति व्रतयोग्यता ? ॥१५५।। अस्तीति भणितस्तेन, शीघ्रमात्मा समर्पित: । भणित: प्रभुणा भद्र!, चित्तशुद्धिर्विधीयताम् ॥१५६॥ अत्रान्तरे समायात-श्चतुरङ्गबलान्वित: । वन्दनाय जिनेन्द्रस्य, श्रेणिको मगधाधिपः ॥१५७॥ प्रविश्य विधिना तत्र, दत्त्वा च भ्रामरीत्रयम् । वन्दित्वा च महावीरं, निषसादोचितासने ॥१५८॥ ततश्च लोकनाथेन, प्रारब्धा धर्मदेशना । कर्णामृतसमा सारा, संसारोच्छेदकारिणी ॥१५९॥ तत: प्रपेदिरे केचिद्, गृहिधर्मं सदर्शनम् । अन्ये च शुद्धचारित्रं, सफलाउजनि देशना ॥१६०॥ समयं प्राप्य भूपेन, तत: पृष्टो जिनेश्वरः । रौहिणीयाह्वयो नाथ !, कुत्र तिष्ठति तस्कर: ? ॥१६१।। प्रकाशयास्य कर्माणि, नामापि प्रकटं प्रभो ! । परं निरूपितोऽस्माभि-र्न चासौ दृश्यते दृशा ॥१६२॥ उवाच भगवानेष, दक्षिणेन ममाग्रत: । तिष्ठति संलीनगात्रोऽसौ, निषण्ण: शुद्धभूतले ॥१६३॥ सन्मुखो मोक्षमार्गस्य, पापकर्मपराङ्मुखः । नैनं प्रत्यशुभं चेतो, विधेयं श्रेणिक ! त्वया ॥१६४॥ शुभाशुभानि चेतांसि, दिनमध्येऽपि देहिनाम् । जायन्ते विस्मयोऽप्यत्र, न कर्तव्यो महीपते ! ॥१६५॥ मोक्षमार्गप्रपन्नस्य, वात्सल्यं तव सङ्गतम् । राजाह कुत्सितं कर्म, सुलभं दुर्लभं त्विदम् ॥१६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org