________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
|
"
निवेश्य देवदूष्याभ-पटेनाच्छादितस्तत: । सञ्जातो मृतसङ्काश - स्तस्करो रौहिणीयकः ॥११०॥ यथास्थानं स्थितो लोको; मन्त्रिणैवं च शिक्षितः । यथा भो भो विधातव्यं, रौहिणीयकसञ्ज्ञितम् ॥ यथायं सहते नाम, नाम्नैव नः प्रयोजनम् । स्वयमेकान्तदेशे च शृण्वन्नसौ व्यवस्थितः ॥११२॥ चौरेणापि जितश्चूर्ण-स्तत उद्घाटितं शिरः । विलोक्यादृष्टपूर्वं त-हं रम्यजनं तथा ॥११३॥ चिन्तितं च किमेतद्भो, मन्नेत्रानन्दकारकम् । दृश्यते सर्वमेवात्र, मयानीक्षितपूर्वकम् ॥ ११४॥ यावदेष मनस्येवं, सर्वतः क्षिप्तलोचनः । विस्मितश्चिन्तयामास, तावदानन्दनिर्भरः ॥ ११५ ॥ जनोऽपि गातुमारब्धः प्रतीहारेण वारितः । रेरे कल्पं न जानीथ, स्थिरीभवत साम्प्रतम् ॥ ११६ ॥ स्थितेषु तेषु तेनोचे, यथा शृणु सुरप्रभो ! । सौधर्माख्यो ह्ययं स्वर्गो, विमानमरुणप्रभम् ॥ ११७॥ अनाथानां भवान्नाथो, जातो बृहन्मनोरथैः । शृणु कल्पं विमानेश !, मङ्गलं येन कुर्महे ॥ ११८ ॥ पिता माता निजं स्थानं, नाम कर्म च कथ्यताम् । पूर्वभवभवं सर्वं क्रियते येन मङ्गलम् ॥ ११९ ॥ ततः सम्भ्रान्तचित्तेन, तस्करेण विचिन्तितम् । साम्प्रतं का गतिः कोऽपि, प्रकारो विस्मयावहः ॥ घटामाटीकते सर्वं, यदनेन प्रभाषितम् । स्वर्गः स्वर्गोद्गताश्चैता, इमे देवा अहं सुरः ॥ १२१ ॥ | देवविमानमेतच्चा - दृष्टं दृष्टिमनोहरम् । पित्रादिकर्मपर्यन्तः परं प्रश्नो न सङ्गतः ॥१२२॥ याथातथ्येन किं सर्वं कथ्यते गोप्यतेऽथवा । न जाने निश्चयं तेन, चेतो दोलायते मम ॥ १२३ ॥ एवं संशयमापन्नो यावदास्ते मलिम्लुचः । तावच्चिने गतं तस्य वचः सर्वज्ञभाषितम् ॥ १२४॥ यदुक्तं वीरनाथेन, वदता देवलक्षणम् । न स्पृशन्ति भुवं देवा, निर्निमेषनिरीक्षिणः ॥ १२५॥ रागद्वेषमहामोह-मूढचित्तस्य भाषितम् । न तदेकान्ततः सत्यं सत्यासत्यं हि तद्वचः ॥१२६॥ रागद्वेषमहामोह-दोषमुक्तस्य जल्पितम् । सत्यं पाषाणरेखेव, यथैवोक्तं तथैव तत् ॥ १२७॥ तदस्ति जीवनोपायो, ममाप्येष न संशयः । पश्यामि तावदेतेषां देवानां दृष्टिलक्षणम् ॥१२८॥ सुप्ताऽऽसनं परित्यज्य, निषण्णाऽऽसनमाश्रितः । सनिमेषा इमे दृष्टा, लग्नपादाश्च भूतले ॥ १२९ ॥ ततः संवादनाहेतोः कृतात्मनि परीक्षणा । यावद् दृष्टं चलं चक्षु-र्लनौ पादौ च भूतले ॥ १३०॥ न स्वर्गो न सुरा एते, न देव्यो न विमानकम् । मायाविलसितं सर्व-मभयस्येति लक्ष्यते ॥१३१॥ मम नामपरिज्ञान-निमित्तमिति मे मतिः । इदं च चिन्तितं तेन, बहिश्चेदं प्रकाशितम् ॥१३२॥ भवद्भिर्यदहो पृष्टं, पित्राद्यं तन्निशम्यताम् । धान्यपूराभिधे ग्रामे, शिवशक्तेः कुटुम्बिनः ॥१३३॥ गृहिणी श्यामलानाम्नी, दुर्गशक्तिरहं सुतः । दयादानसमायुक्तः, सर्वदर्शनभक्तिमान् ॥१३४|| सदा स्वदारसन्तुष्टः, परद्रव्यपराङ्मुखः । अन्यदा च जनन्या मे, रजन्याः प्रहरे गते ॥ १३५ ॥ गाढा विशूचिका जाता, जीवितव्यान्तकारिणी । ततोऽहं प्रेषित: पित्रा, वैद्यानयनहेतवे ॥१३६॥ यावत्तत्र गतस्ताव-त्पुरद्वारं नियन्त्रितम् । करणाभ्यासयोगेन, शालमुल्लङ्घयन्नहम् ॥१३७॥ शालस्थितनरैर्बद्धो, दौकितोऽभयमन्त्रिणे । क्षपाक्षये च तेनापि, नीत्वा राज्ञे समर्पितः ॥ १३८ ॥
"
१४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org