________________
अधिकार ३ / श्लोक ८८-९० / जिनवाणिश्रवणे रौहिणेयचोरकथा
भुञ्जतां मित्रगेहेषु, प्रस्तावे च प्रतीच्छताम् । इत्येवं वर्धते प्रीतिः, प्राणिनां भववासिनाम् ॥८२।। चौरेण चिन्तितं सोऽय-मन्तिकस्थो ममान्तकः । यद्ोपितं मया नाम, पृच्छतोऽपि महीपतेः ॥८३।। तेनाहमर्पितो राज्ञा, बुद्धिगेहस्य मन्त्रिणः । येन तेन प्रकारेण, नामविज्ञानहेतवे ॥८४॥ भवत्वात्मा न मोक्तव्य:, खेदोऽपि च न सङ्गतः । सोढव्यं पतितं सर्वं, वीरणोन्नतचेतसा ॥८५।। विधिरेष करोत्येवं, नानाकारा विडम्बना: । स्वयं कृतानि कर्माणि, भुज्यन्ते स्वत एव हि ॥८६।। भुज्यते यद्विधिर्दते, विधिदत्तं च पीयते । गम्यते नीयते यत्र, विधिदत्ते च सुप्यते ॥८७॥ गम्यते किं विचारेण, नान्यथा बत मुच्यते । विचिन्त्यैवं ततस्तेन, प्रपन्नं मन्त्रिणो वचः ॥८८॥ ततोऽभयकुमारेणा-नीत: प्रीतिपुरस्सरम् । स्वगृहे दापितं तस्य, विशिष्टं बृहदासनम् ॥८९॥ केनोपायेन हन्तायं, निजं नाम वदिष्यति । हुं ज्ञातं मद्यपानेन, तत्र यत्नं प्रकुर्महे ॥११॥ मद्यापणात्ततो मद्यं, हृद्यं जनमनोहरम् । आनीय च विधायोच्च-र्गोष्ठीबन्धं समन्तत: ॥१२॥ भणितोऽभयकुमारेण, चारणश्चतुराननः । त्वया गीते समारब्धे, स्तोतव्यो रौहिणीयकः ॥९३॥ कृते तथैव तेनापि, चिन्तयामास तस्कर: । सोऽयं मन्नामविज्ञान-हेतवे पाशकः कृतः ॥९४|| तथा मद्यं पिबत्येवं, यथा नो जायते मदः । न चं ब्रूते विरूपाणि, चेतना नैव मुह्यते ॥१५॥ पीयमानेषु मद्येषु, दूहकै: सह सुन्दरैः । नृत्यत्सु मदमत्तेषु, नरेषु रौहिणीयकः ॥९६॥ अलीककोपमाधाय, चौरो वदति चारणम् । रे चारण ! दुराचार !, कोऽयं भो रौहिणीयकः ॥९७॥ का माता: क: पिता तस्य, मूर्खस्त्वं मूढ ! लक्ष्यसे । नानृतं गायनं कार्यं, याहि याहि ममाग्रतः ॥९८।।
शिवशक्तिसुतं शान्तं, श्यामलाकुक्षिसम्भवम् ।
दुर्गशक्तिं महाशक्तिं, गीतयोग्यं न गायसे ॥९९॥ ततचूर्णेन सन्मित्रं, पायितो मन्त्रिणा सुराम् । तया निर्नष्टचेष्टोऽसौ, पपात भुवि चौर्यकृत् ॥१०॥ न वक्ति श्वसिति नापि, न पश्यति न जिघ्रति । निषिद्धेन्द्रियसञ्चारो, जातो योगीव निश्चलः ॥१०१।। तथाविधं तकं दृष्ट्वा, मन्त्रिणा निजमन्दिरम् । उपरिष्टाच्च विमानस्य, सदृशं सपदि कारितम्॥ पञ्चवर्णमहामूल्य-वस्त्रस्यूतवितानकैः । यन्मनांसि हरत्येव, यथास्थानं वितर्दितैः ॥१०३॥ मुक्ताहारार्धहारैश्च, चतुर्दिक्षु विलम्बितैः । हारिहीरकजालैश्च, मध्यभागे च मण्डितम् ॥१०४|| नानापुष्पोपहारोण, सर्वतोऽपि विराजितम् । कर्पूरागुरुसन्मिश्र-धूपगन्धसमुद्धरम् ॥१०५॥
वरकस्तूरिकालिप्त-भित्तिस्थभ्रमराकुलम्। सारस्वस्तिकमालाभि-र्मालितं रत्नशालितम्॥१०६।। नव्यभव्यव्यवस्थेन, वरनेपथ्यधारिणा । रूपसौभाग्ययुक्तेन, लोकविस्मयकारिणा ॥१०७॥ नरनारीसमूहेन, युक्तं युक्तविधायिना । सुरपल्यङ्कतुल्येन, पल्यङ्केन समन्वितम् ॥१०८॥ कारितं च क्षणादेव, मन्त्रिणा निजमन्दिरम् । ततो भृत्यैः स उत्क्षिप्य, तत्र पर्यङ्कके वरे ॥१०९।। १BUPCL केन-मु. ।। २ कर्पूरमृगमदा (दPC) लिप्तभित्तिकं लीनमधुकरं सारं BJPCIT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org