________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
ततोऽभयकुमारस्य, शीघ्रं नीत्वा स ढौकितः । तेनापि यन्त्रितं कृत्वा, सुप्रयत्नेन धारितः ॥ ५४ ॥ क्षपाक्षये दिनं जात- मुदितोऽरुणसारथिः । स्वकर्मधर्मसंयुक्ता, जज्ञिरे निखिला जनाः ||५५|| कृतप्रभातकर्तव्यः, श्रेणिको मगधाधिपः । सभासिंहासनासीनो, लोकेन परिवारितः ॥ ५६ ॥ यावदास्ते क्षणं तावदभयोऽपि समागतः । रौहिणीयकनामानं गृहीत्वा तस्करं तकम् ॥५७॥ वयं निराकुला जाता-स्तात ! तीर्णभया यतः । प्रभूणां वचनं कृत्वा, सेवकाः शेरते सुखम् ॥५८॥ कृतालीकप्रकोपेन, श्रेणिकेन प्रजल्पितम् । सुबुद्धिरपि वत्स ! त्वं, निर्बुद्धिरिव लक्ष्यसे ॥५९॥ यदस्य नररत्नस्य, बन्धायोग्यस्य बन्धनम् । तद्दुनोति मनो वत्स !, मामकीनमनारतम् ॥६०॥ अनालोचितकारी हि, नरो नैव प्रशस्यते । ततो विबन्धनं कृत्वा, विमुञ्चैनं ममाग्रतः ||६१|| गतोऽसौ श्रेणिकेनापि, गाढं सावेशचेतसा । चिन्तितं यद्ययं नाम, रौहिणीयकसंज्ञकः ॥६२॥ सहते तदा करोम्यस्य, तीव्रदण्डेन शिक्षणम् । यथान्योऽपि बिभेत्युच्चैः, कुर्वाणः कर्म कुत्सितम् ॥६३॥ अभयोऽपि समायातः, कृत्वादिष्टं महीभुजः । दत्तं तस्मै सुतुष्टेन, स्वाङ्गलग्नं महीभृता ॥ ६४ ॥ ॥ वस्त्रादि भीतभीतेन, तेनापीदं प्रतीच्छितम् । ताम्बूलं च स्वहस्तेन, स्वासनं चासनाय च ॥ ६५॥ ततः सञ्जातशङ्केन, तस्करेण विचिन्ततम् । आश्चर्यमिदं भाति य - ददृष्टे कुरुते नृपः ||६६|| न कृतोऽवसरः कोऽपि, न चास्योपकृतं मया । वैवाहिको न सम्बन्धः, स्वाजन्यं न च तादृशम् ॥ ६७॥ आदरश्च महानेष, क्रियते मे महीभुजा । महच्छङ्कापूदं चेदं विपाकोऽस्य न सुन्दरः || ६८|| मामयं न विजानाति, नाम च प्रकटं मम । तदयं जीवनोपायो, यत्स्वं नाम न कथ्यते ॥ ६९ ॥ प्रणम्य भणितो राजा, तस्करेण ससम्भ्रमम् । प्रसादः क्रियते कस्य, स्वामिनो वेद्यतां मम ॥ ७० ॥ राजाह रौहिणीयस्य, तवायं वीरकर्मणः । स प्राहालं प्रसादेन, मुक्त्वा वस्त्रादिकं ततः ॥ ७१ ॥ ताम्बूलं च परित्यज्य, निषण्णः शुद्धभूतले । विषण्णवदनो दीन उवाचेदं नृपं वचः ॥७२॥ विधातुर्विस्मृतो येन, न कृतं मे स्तनद्वयं । परनामोपजीवी यो, रामा सा न पुमानसौ ॥७३॥ वरं मृतो वरं दग्धो, मा सञ्जातो वरं नरः । परस्य नाम विक्रीय, प्रसादं यः प्रतीच्छति ॥७४॥ धान्यपूराभिधे ग्रामे, शिवशक्ति: कुटुम्बिकः । श्यामा भार्या तयोर्जातो, दुर्गशक्तिरहं सुतः ॥७५॥
तस्मै यद्देहि तद्देहि, नाहं हि रौहिणीयकः । श्रुत्वेदं भूभुजा मुक्तः, स्वीकृतो दण्डपाशिना ||७६|| आकारितो नरेन्द्रेण मन्त्री मन्त्रिपुरस्सरः । अभयो भणितश्चेदं, नामाप्येष न मन्यते ॥७७॥ अप्रतिपन्ननामा च, कथं कष्टेन मार्यते ? । तथा कुरु यथा नाम, स्वयं स प्रतिपद्यते ॥७८॥ ततो निर्व्याकुला यूयं, तीर्णभाराः समन्ततः । वयमेव करिष्यामो यथा युक्तमतः परम् ||७९|| अभयेनापि सस्नेह, राजाध्यक्षं स जल्पितः । प्रीतिवृद्धिकृते भद्र!, भोक्तव्यं मद्गृहे त्वया ॥८०॥ ददतां वर्धते प्रीतिः, समये प्रतिगृह्णताम् । गुह्यं कथयतां चैव, समये प्रतिशृण्वताम् ॥८१॥
१४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org