________________
अधिकार ३ / श्लोक ८८- ९० / जिनवाणिश्रवणे रौहिणेयचोरकथा
तस्करं वा लभस्वाशु, लोकानां देहि वा धनम् । न लभ्यते मुधा मूढ !, त्विदमारक्षिकं पदम् ॥ २५ ॥ कृता गवेषणा तेन, बहिरन्तश्च सर्वतः । न लब्धस्तस्करः क्वापि, ततो राज्ञे निवेदितम् ॥२६॥ न दृष्टस्तस्रो देव !, न धनं मम विद्यते । यादृशं सर्वलोकानां दीयते प्रभुवाक्यतः ॥२७॥ एते वयमिमे प्राणा, गृहसारोऽपि तावक: । कुरु यद्रोचते तुभ्यं, किमन्यैर्बहुजल्पितैः ॥२८॥ ततो राज्ञा समाहूतो, मन्त्री मन्त्रिपुरस्सरः । नाम्नाभयकुमारोऽथ, साक्षेपं च प्रभाषितः ॥ २९॥ वत्स ! पञ्चाहमध्ये त्वं, तस्करं प्रकटीकुरु । नो चेत्तस्करदण्डस्ते, पतिता नास्ति संशयः ||३०|| यदादिशति तातो मे, तत्करोमि न संशयः । तिष्ठत सुस्थिता यूयं, भारोऽयं मयि सम्भृतः ||३१|| ततस्त्रिकचतुष्केषु, शून्यागारगृहेषु च । वेश्यागृहेषु सर्वेषु, ध्वजिनामापणेषु च ॥३२॥ नदीकूपतडागेषु, देवतायतनेषु च । निरूपितो न च दृष्टो, गूढचारी स तस्करः ॥३३॥ गतान्यहानि चत्वारि, पञ्चमे च समागते । यामिन्याश्चरमे यामे, ह्यभयेन विचिन्तितम् ॥ ३४॥ हुं विज्ञातो मया नैष, द्वारचारी मलिम्लुचः । तदस्य ग्रहणे कोऽप्यु - पायोऽन्यश्च विचिन्त्यते ॥ ३५ ॥ सालोपरेण कोऽप्येष सञ्चरति न संशयः । तस्माच्छालं विशालेन, मालयामि पदातिना || ३६ || इदं विचिन्त्य विज्ञप्त - स्तेन राजा रहः स्थितः । पादातं मदधस्तात !, रात्रिमेकां विधीयताम् ॥३७॥ प्रतिपन्नं नरेन्द्रेण, वत्स ! किं याचितं त्वया । त्वदाधीनं हि मे राज्यं, प्राणा अपि च तावकाः ॥३८॥ ततोऽभयकुमारेण, पादातेन समन्ततः । प्राकारो मालितः सर्वः, सावधानेन सर्पता ||३९|| इतश्च नगरासन्ने, ग्रामे [च] रौहिणीयकः । गतो बन्धूपरोधेन, स्थितश्च प्रहरत्रयम् ॥ ४० ॥ वलितः सत्वरैः पादैः, प्राप्तो राजगृहे पुरे । एकतो धर्ममाचष्टे, महावीरो जिनेश्वरः ||४१ || अन्यतः पुरलोकेभ्यो, भयं तस्य विवर्धते । तदिदं हन्त सञ्जात - मितो व्याघ्र इतस्तटी ॥४२॥ कर्णयोरङ्गुलीर्दत्त्वा, वेगेन प्रपलायितः । विद्धो सव्येतरे पादे, शूलया धूलिछन्नया ॥४३॥ ततो गन्तुमशक्तेन, भीतभीतेन तेन सा । शूला दक्षिणहस्तेन, शीघ्रमेव समुद्धृता ॥ ४४|| इतश्च लोकनाथेन, वदता देवलक्षणम् । न स्पृशन्ति भुवं देवा, निर्निमेषनिरीक्षिणः || ४५|| इत्यादि गदितं वाक्यं, प्रविष्टं तस्य कर्णयोः । भूयोऽपि चाङ्गुलीर्दत्त्वा कर्णयोः प्रपलायितः ॥४६॥ वैभारपर्वते गत्वा, भुक्त्वा च वरभोजनम् । पीत्वा च वरवारीणि, निलीनो निभृतं स्थितः ॥४७॥ दिनं गतं निशा जाता, तम: स्तोमो विजृम्भितः । दृश्यं न दृश्यते वस्तु, लोकेन पुरतः स्थितम् ॥४८॥ घूत्कृतं घूकसार्थेन, शिवाभिश्च ववासिरे । स्फीतफेत्कृतशब्देन, जनसन्त्रासकारिणा ॥ ४९ ॥ इतश्च मन्त्रिणा प्रोक्तः, पुररक्षाविधायकः । द्वाररक्षाद्य कर्तव्या, प्रतोलीनां प्रदानतः ॥ ५० ॥ प्रतिपन्नमिदं तेन, क्रियया च तथा कृतम् । शालोऽपि मालितः सर्वो, निरन्तरं पदातिना ॥५१॥ पर्वतात्तूर्णमुत्तीर्ण-स्तस्करो रौहिणीयकः । वीरवेषधरो वीरः, सम्प्राप्तः शालसन्निधौ ॥५२॥ अज्ञातपुरवृत्तान्तः, करणाभ्यासयोगत: । शालमुल्लङ्घयन् बद्ध:, शालस्थसुभटैर्दृढम् ॥५३॥
I
For Private & Personal Use Only
Jain Education International
१४३
www.jainelibrary.org