________________
१४२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
___ अत्र श्रोतव्यं शुद्धसिद्धान्तसारमार्हतं वच इत्युपदिष्टं तत्र ये केचन भावसारं सार्वज्ञं वच: शृण्वन्ति तेषां तावदैहिकामुष्मिक़सकलकल्याणपरम्परा भवत्येव, भावविकलानामपि केषांचिदैवयोगेन श्रवणपथमुपगतं सत् जैनेन्द्रं वच: सकलमपि समीहितं साधयति, यथा रौहिणेयकचौरस्य तत्कथानकं चात्र
अस्तीह सर्वतो रम्यं, पुरं राजगृहाभिधम् । स्वर्गखण्डमिवोत्तुङ्ग-देववेश्मसमाकुलम् ॥१॥ आसीत्तत्र श्रियां धाम श्रेणिको नाम भूपति: । बभूव तस्य सद्बुद्धि: सुप्रसिद्धोऽभयाभिधः।। पुत्रो मन्त्री च नि:शेष-गुणसन्दोहमन्दिरम् । तथा तत्रैव सच्छैलो, वैभारगिरिनामकः॥ नानावृक्षसमाकीर्णो, नानागह्वरसङ्कुल: । प्रोत्तुङ्गैः शृङ्गसन्दोहै:, संरुद्धगगनान्तरः ॥४॥ तत्रानेकगुहाकीर्णे, झरन्निर्झरसङ्कुले । बभूवाशेषसत्त्वानां, सदा सन्तापकारकः ॥५॥ नानावेषधरो धीरो, धर्मवार्ताबहिष्कृतः । वसत्यलक्षितो लोकै-स्तस्करो रौहिणेयकः ॥६॥ माया माता जनी यस्य, मृषा हृदयवासिनी । अदत्तग्रहणं मूल-नीवी नित्यं तदापणे ॥७॥ अभक्ष्यं विद्यते नास्य, नापेयं किञ्चिदप्यहो। अगम्यं विद्यते नैव, सर्वाशी सर्वलूषक: ॥८॥ वासरे नगरस्यान्त-र्बद्धपट्टपदद्वयः । शनैः शनैश्चरत्येष, खञ्जन् क्षीणस्वरं लपन् ॥९॥ यष्ट्यवष्टम्भतो धूर्तो, दुःखं दुःखेन गच्छति । कासन्ननारतं रीण: कष्टंकष्टेन जल्पति ॥१०॥ भालस्थजीर्णपट्टेन, स्थगितैकविलोचनः । बभ्राम हण्डिकाहस्तो, गृहदर्शनकाम्यया ॥११॥ सधनं निर्धनं चेद-मिदं पुंभिर्विवर्जितम् । इत्यादि सकलं ज्ञात्वा, निश्चक्राम तत: पुरात् ॥१२॥ कुभोजनं परित्यज्य, हित्वा दूरे च हण्डिकाम् । सुभोजनं समानीय बुभुजेऽसौ यथेच्छया ॥१३॥ अलक्षितश्च लोकेन, गत्वा वैभारपर्वते । तावदास्ते निलीनोऽसौ, यावदस्तं गतो रविः ॥१४॥ ततश्च पर्वतादेष, उत्ततार शनैः शनैः । दत्त्वा समन्ततो दृष्टिं, ततो नि:शङ्कमानस: ॥१५॥ वीरवेषं विधायासौ, लोकमोषणवाञ्छया। नक्तं सुप्तेषु लोकेषु, सालमुल्लङ्घय लीलया ।।१६।। प्रविश्य नगरं तूर्णं, मुषित्वा चिह्नितं गृहम् । निर्जगाम तथैवासौ, तस्करो रौहिणेयकः ॥१७॥ एवं दिने दिने तेन, कुर्वता निर्धनीकृतः । राजगृहजन: सर्वो, राज्ञोऽन्तिकमुपागतः ॥१८॥ विज्ञप्तो नृपतिस्तेन, देव ! दर्शय साम्प्रतम् । पानीयस्थानमस्माकं, वस्तुमत्र न शक्यते ।।१९।। राज्ञोक्तं केन कार्येण, कथ्यतां स्वप्रयोजनम् । जनेनोक्तं महाराज ! सावधानैर्निशम्यताम् ॥२०॥ युष्मासु विद्यमानेषु, विद्यमानेषु मन्त्रिषु । केनापीदं पुरं राज-ननाथमिव मुष्यते ।।२१।। तत: सञ्जातखेदेन, भूमिपालेन भाषितम् । कथ्यतां किं गत: क्वापि, भो लोका! दण्डपाशिक: ? ॥ श्रुत्वेदं कोट्टपालेन, विधाय करकुड्मलम् । जल्पितमेष देवाह-मादेशो मम दीयताम् ॥२३॥ भणितं भूमिनाथेन, भद्र ! किं न श्रुतं त्वया ? । यदुक्तं पौरलोकेन, विरागविधुरं वचः॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org