SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अधिकार ३ / श्लोक ८४-९० / जिनवाणिश्रवणोपदेशादि १४१ निर्भक्तिका इत्यर्थ: आत्मगृह आत्मद्रोहकारिणस्ते निर्मर्यादा: निर्मेरा पुरुषा नरकोन्मुखा दुर्गतिसन्मुखा इति ॥८६॥ किमिति साधुपराङ्मुखा एवं निन्द्यन्त इत्याह गौरव्या गुरवो मान्या, धर्ममार्गोपदेशकाः । सेवनीयाः प्रयत्नेन, संसाराम्बुधिसेतवः ॥८॥ गौरव्या गौरवार्हा गुरवो धर्माचार्या मान्या बहुमानविषया धर्ममार्गोपदेशका ज्ञानदर्शनचारित्रमोक्षमार्गोपदेष्टार: सेवनीया: पर्युपासनीया विशेषत: संसाराम्बुधिसेतव: संसारसमुद्रसमुत्तरणसेतवो मार्गकल्पा: ।।८७॥ [श्रोतव्यं शुद्धसिद्धान्त-सारं च साधुभ्यः सदा। तथा तदनुसारेण, विधेया सदनुष्ठिति: ।८८॥ कार्यश्च सदौदासीन्य-भावपरिहारस्तथा। निन्दाऽश्रवणं दोषेषु, मूकता दुष्टनिग्रहः ॥८९॥ सदाचारप्रमत्तानां, मतमेकान्तशिक्षणम् । यथाऽन्योऽपि न जानाति, तथा हितं मिताक्षरैः ॥९०॥] तथा श्रोतव्यमित्यादिश्लोकत्रयं, श्रोतव्यं शुद्धसिद्धान्तसारंशुद्धसिद्धान्त: सार: प्रधानो यत्र तत्र केभ्य:? साधुभ्यस्तदनुसारेणागमानुसारेण विधेया कार्या, का? सदनुष्ठिति: शोभनानुष्ठानरूपा सुस्थचिन्ता च साबाधनिराबाधगवेषणा च, सदा सर्वदौदासीन्यभावपरिहार: प्रवर्तननिवर्तनलक्षणस्य वर्जनं परिहार: तन्निन्दाऽश्रवणं तेषां साधूनां निन्दा दोषग्रहणलक्षणा तस्या अश्रवणमनाकर्ण, दोषेषु दोषोद्घटनेषु मूकता मूकीभाव: कार्य:, दुष्टनिग्रहो दुष्टानां मिथ्यादृष्टीनां यथाशक्तया निग्रहो निवारणमपकारकरणप्रवृत्तानामिति शेष:, तथा सदाचारप्रमत्तानां ज्ञानादिपञ्चप्रकाराचारचरणंप्रमादिनां मतं सम्मतमेकान्तशिक्षणं रह: शिक्षाप्रदानलक्षणं, यथान्योऽपि मिथ्यादृष्ट्यादिर्न जानाति न वेत्ति यदनेनेदं कुकर्म सेवितमिति, तथा हितं मिताक्षरैस्तथा तेन प्रकारेण हितान्यागामिनि काले पथ्यानि तानि परिमितानि वर्णरूपाणि तैः ॥८८-९०।। १ इदंतु ध्येयं-सर्वासु हस्तलिखित प्रतिषु मुद्रिते च नोपलभ्यते इदं श्लोकयम् (८८-९०), अस्माभिस्तु टीकानुसारं संयोज्य अत्र योजितम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy