________________
१४०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
एवं अइक्कमंते, वाससहस्सेहिं एकवीसाए । फिट्टही लोगधम्मो, अग्गीमग्गो जिणक्खाओ ॥ ४० ॥ पुव्वाए संझाए, वोच्छेओ होइ चरणधम्मस्स । मज्झने राईणं, अवरण्णे जायतेयस्स ॥ ४१ ॥ पच्छिमझाए भवे, छेओ कुलधम्मदेसधम्माणं । एसो खलु वोच्छेओ, दूसमचरिमंमि दिवसंमि ||४२ ॥
तदिमां दुष्प्रसहसूरिवक्तव्यतामाकर्ण्य न वक्तव्यं सम्प्रति चारित्रं नास्तीति, तस्य दुष्प्रसह एव व्यवच्छेद इत्यागमोक्तिरिति । अथैवंविधेऽपि चारित्रप्रतिपादके सर्वजनप्रतीते सिद्धान्तवचने यो मन्येत न सन्ति सम्प्रति साधव इति तं प्रत्यभ्युच्चयमाह
कृत्यमार्गोपदेष्टारो, यत्र सन्ति न साधवः ।
न तत्र धर्मनामापि कुतो धर्म: कुत: क्रिया ? ||८४ ॥
कृत्यमार्गोपदेष्टारः शुभमार्गोपदेशका यत्रैकान्ते दुःषमादौ काले न सन्ति न विद्यन्ते साधवो मुनयः न नास्ति धर्मनामाप्यभिधानम्मात्रमपि तत्र देशादौ तर्हि कुतो धर्म: ? कुतः क्रिया सदनुष्ठानात्मिका ? न कुतोऽपि कारणाभावादिति ॥८५॥ साधूनेव स्तुवन्नाहक्षमादिब्रह्मपर्यन्त गुणरत्नैरलङ्कृताः ।
साधवः कलिकालेऽपि चलन्तः कल्पपादपाः ॥ ८५ ॥
Jain Education International
>
-
,
कल्पपादपा वर्तन्ते कल्पोर्वीरुहा वर्तन्ते साधव इति योग:, कथम्भूता: ?, चलन्तश्चङ्क्रमणशीलाः क्व ?, कलिकालेऽपि दुःषमायामपि, कथम्भूताः साधव: ?, क्षमामार्दवार्जवसत्यशौचब्रह्मा- किञ्चन्यतप: संयमा एव गुणाः, त एव रत्नानि मरकतादीनि, तैरलङ्कृता विभूषिताः ॥ ८५ ॥
सरोपहतबुद्धयो दोषग्राहिणस्तेषां दोषदर्शनायाहकल्पपादपतुल्येषु, ये [ सु] साधुपराङ्मुखाः । आत्मद्रुहो निर्मर्यादा -स्ते नरा नरकोन्मुखाः ॥८६॥
कल्पपादपतुल्येषुकल्पोर्वीरुहसमानेषु साधुषु मुनिषु ये केचन पराङ्मुखा
For Private & Personal Use Only
www.jainelibrary.org