________________
अधिकार ३ / श्लोक ७७-८० / गुरुतत्त्वस्वरूपम्
___ १३५
१३५
अथ गुरुभक्तिफलमेव दृष्टान्तेन स्पष्टमाचष्टे
प्रथमान्तिमतीर्थेशै-स्तीर्थकृन्नामकर्मणः । बीजं लब्धमटव्यां य-गुरुभक्तिस्तत्र कारणम् ॥७९॥
प्रथमान्तिमतीर्थेशैः प्रथमपश्चिमतीर्थनायकैः प्रलब्धं प्राप्तं बीजं कारणं कस्य ? तीर्थकृन्नामकर्मण: तीर्थकरैर्भूयते येन कर्मणा तत्तीर्थकृन्नामकर्म तस्य, कुत्र बीजं लब्धं? अटव्यां शून्यारण्ये गुरुभक्तिधर्माचार्येतिकर्तव्यता, तत्र तीर्थकृन्नामकर्मलाभे कारणं हेतुः ॥७७-८२॥
तथाहि धनेन वाणिज्यार्थं विनिर्गतेन वर्षाकालव्याहतगमनेनाटव्यां सन्तिष्ठता सीदतां साधूनां घृतप्रदानेन तीर्थकरत्वबीजमासादितम् । महावीरजीवेनाप्यपरविदेहे ग्रामचिन्तकेन सता राजादेशेन काष्ठनिमित्तं कान्तारमनुप्रविष्टेन सार्थपरिभ्रष्टा निरशना अटव्यां पर्यटन्त: साधवो दृष्टाः, समाहूय भक्तपानेन च प्रतिलाभिता: स्वस्थावस्था मार्गे चावतारिता: । ततश्च साधूनां तं प्रत्यनुकम्पा समजनि, धर्मदेशना कृता, बोधिबीजं च तेन प्राप्तमिति । दाह
अवरविदेहे गामस्स, चिंतओं रायदारुवणगमणं । साहूभिक्खनिमित्तं, सत्था हीणे तहिं पासे ॥१॥ दाणं दाउं पंथणयणं, अणुकंपगुरूण कहण सम्मत्तं । सोहम्मे उववन्नो, पलियाउ सुरो महिडीओ ॥७९॥
[आवश्यकनि. भा. १४६ पृ. ७३]
व्यतिरेकमाह
पापोपहतबुद्धीनां, येषां चेतसि न स्थिता। गुरुभक्तिः कुतस्तेषां, सम्यग्दर्शनमुत्तमम् ॥८०॥
पापेन पापाभिसन्धिनोपहता दूषिता मतिर्बुद्धिर्येषां ते पापोपहतबुद्धयस्तेषां येषां केषांचिच्चेतसि मनसि न स्थिता नावस्थानं कृतवती गुरुभक्तिधर्माचार्येतिकर्तव्यता, कुत: कस्मान्न कुतोऽपीति, सम्यग्दर्शनं सद्बोधलक्षणमुत्तमं प्रधानम् ॥८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org