SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १३४ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके गुरुभक्त्यधिकारः ३ अथ गुरुभक्तिरिति तृतीयोऽधिकार आरभ्यते-अस्य चायमभिसम्बन्ध:, अनन्तराधिकारे पूजाविधिरुक्तः, तत्र जिनस्य जिनपूजनस्य च स्वरूपं गुरुभक्तिप्रसादत एव ज्ञायते, इत्यतो गुरुभक्तिप्रशंसात्राभिधीयते, इत्यनेन सम्बन्धेनागतोऽयं व्याख्यायते, तत्र गुरुरिति कः शब्दार्थ: ? उच्यते 'गृ निगरणे, इत्यस्य उणादिकउप्रत्ययान्तस्य गुरुरिति भवति, गृणाति प्रतिपादयति शिष्येभ्य: शास्त्रार्थमिति गुरुस्तस्य भक्ति: सेवा पर्युपासनेति पर्याया: गुरुभक्तिस्तस्या: प्रशंसा श्लाघा, गुरुभक्तेरिहलौकिकपारलौकिकगुणोपवर्णनमित्यर्थः, गुरुभक्तिप्रशंसात्र वर्ण्यत इति सम्बन्ध:, तत्रायमादिश्लोक: गुरुभक्तिर्भवाम्भोधे-स्तारिका दःखवारिका। धन्यानां वर्तते चित्ते, प्रत्यहं नौरिव दृढा ॥७७॥ गुरुभक्तिर्धर्माचार्यबहुमानो भवाम्भोधे:. संसारसमुद्रात्तारिका, तारणकारिका, दुःखवारिका शारीरमानसाशर्मनिषेधिका, धन्यानां धर्मधनलाभवतां वर्तते सन्तिष्ठते नौरिव बेडेव दृढा बलिष्ठेति श्लोकसमासार्थ: ॥१॥ तत्र-गुरुलक्षणमिदं धर्मज्ञो धर्मकर्ता च, सदा धर्मप्रवर्तकः । सत्त्वेभ्यो धर्मशास्त्रार्थ-देशको गुरुरुच्यते ॥१॥ अथवा- जो जेणं जंमि ठाणंमि, ठाविओ दंसणे च चरणे वा । सो चेव तस्स भन्नइ, धम्मगुरू धम्मदाणाओ ॥२॥ इति प्रथमश्लोकभावार्थः ॥७७॥ अथ गुरुभक्तेः फलमाह यत्र शिष्टसमाचारो, यत्र धर्मव्यवस्थितिः । तत्राविगानतो दृष्टं, गुरुतत्त्वं विचक्षणैः ॥७॥ यत्र कुत्रापि शिष्टजनसमाचारो धार्मिकजनसमाचारो [यत्र च धर्मस्य व्यवस्थितिय॑वस्था] तत्र, विगानं व्यभिचार: न विगानमविगानं तस्मादविगानतो निश्चयेन दृष्टमुपलब्धं गुरुतत्त्वं धर्माचार्यरहस्यं विचक्षणैर्विद्वद्भिरिति श्लोकार्थः ॥७८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy