SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १३३ अधिकार २ / श्लोक ७६ / जिनपूजायां दुर्गतानारीकथा १३३ ततो भगवान् गम्भीरां धर्मकथामकथयत्, यथा स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविषयो महाफलो भवति तथा च एक पि उदगबिंदु जह पक्खित्तं महासमुइंमि । जाइ अक्खयमेवं, पूयावि हु वीयरागेसु ॥१॥ उत्तमगुणबहुमाणो, पयमुत्तसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूयाए वीअरागाणं ॥२॥ [पञ्चा. ४/४८] ततो भगवांस्तत्सम्बन्धिनं 'भाविव्यतिकरमकथयत्, स दुर्गतयोषाजीवो देवो देवलोकाच्च्युत्वा कनकपुरे नगरे कनकध्वजनामा राजा भविष्यति, स च जन्मान्तरोपार्जितपुण्यप्राग्भारवशेन सांसारिकसुखान्यनुभवन्नन्यदा शरत्काले शक्रमहोत्सवप्रदर्शनार्थं निर्गच्छन्नन्तरा सर:परिसरे दर्दुर भुजङ्गेन भुजङ्गमंकुररेण, कुररमजगरेण च ग्रस्यमानं दृष्ट्वा संवेगमापन्नो भवनिर्विण्णमना चिन्तयिष्यति, यथायं दर्दुरः स्वल्पबलो महाबलेन भुजङ्गमेन ग्रस्यते, भुजङ्गमोऽपि तदधिकबलेन कुररेण ग्रस्यते, कुररोऽप्यजगरेण चैवं कृषीवलो बलाधिपेन, बलाधिपोऽप्यमात्येन, अमात्योऽपि राज्ञा, राजापि चक्रवर्तिना चक्रवर्त्यपि मृत्युना यथाबलं बाध्यते, तदेवमसारोऽयं संसार इति वितर्कयन् संवेगमापन्न: प्राज्यं राज्यं तृणवत्परित्यज्य शब्दादिविषयान् विषविषमान् परिकलय्य प्रत्येकबुद्धो भविष्यति, स चाद्यदिन एव द्रव्यक्षेत्रकालभावभेदभिन्नानभिग्रहान् ग्रहीष्यति, दुष्करतरतपोभिनिष्टप्तसर्वाङ्गो निरतिचारां प्रव्रज्यां चिरकालं परिपाल्य प्रवर्धमानशुभपरिणामोऽयोध्यायां शक्रावतारचैत्योद्याने शुद्धभूतलेऽनशनं करिष्यति, मूलोन्मूलितघातिकर्मा समुत्पन्नदिव्यज्ञान: क्षपकश्रेणिमारुह्य निरुद्धयोगत्रिक: शैलेशी प्रतिपद्य नि:शेषिताशेषकर्मांशोऽष्टमे भवे निर्वाणं गमिष्यति, एवं च पूज्यपूजाप्रणिधानमपि महाफलमिति ॥७५|| किञ्च ऐश्वर्येणापि किं तेन, किं प्रभुत्वेन भूयसा। पाण्डित्येनापि किं तेन ?, जिनो यत्र न पूज्यते ॥७६॥ स्पष्टम् । इति धर्मरत्नकरण्डके जिनपूजाविषये द्वितीयोऽधिकारः समाप्त: ॥ श्रीरस्तु । १JI भाविभव्यति” BPC | भाविभवव्यति' पञ्चाशक वृत्तौ ॥ २ श्रमणत्वमुपगम्य देवत्वमवाप्स्यति । एवं भवपरम्परया अयोध्याया नगर्याः शक्रावतारनानि चैत्ये केवलश्रियमवाप्य सेत्स्यति-इति पञ्चाशकटीकायाम् ४/४९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy