________________
१३२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
दुर्गतानारीकथा
इह हि भक्तिनिर्भरानेकनाकनाकीननिकरानुगम्यमानमार्गोऽमरवरनिर्मितस्फुरदुरुरुचिरुचिरतरचारुचामीकरप्रवरतरवारिरुहनिकोपरिक्षिप्तप्रशस्तसमस्तस्वस्तिकाद्यतुललक्षणावलिकलितसरलसुकुमालविमलतरचारुचरणकमलयुगलो निजकतनुप्रभवप्रभास्वरप्रभामण्डलविदलिताखिलदिक्चक्रवालोजृम्भमाणतिमिरभवप्राग्भारः, सकलत्रैलोक्यप्रभुः, सकलसद्गुणरत्नरत्नाकरः, 'श्रीमन्महावीर वर्धमानस्वामी ईक्ष्वाकुकुलनन्दन: प्रसिद्धसिद्धार्थपार्थिवपुत्र: पुत्रीयितनिखिल-भुवनजनो जनितजनमनश्चमत्कारगुणग्रामो ग्रामाकरनगरपुरपूरपृथ्वीं पृथिवीं विहरन्नन्यदा कदाचित्काकन्दीनामिकायां पुरि समाजगाम । तत्र चामरवरविसरविरचितसमवसरणमध्यवर्तिनि भगवति धर्मदेशनां विदधति, तथा नानाविधयानवाहनसमारूढप्रौढपत्तिपरिगते गन्धसिन्धुरस्कन्ध-मधिष्ठिते छत्रछन्ननभस्तले मागधोगीतगुणगणे भेरीभाङ्कारभरिताम्बरतले नरपतौ तथा द्विजवरवैश्यादिके पुरजने, तथा गन्धधूपपुष्पपटलप्रभृतिपूजापदार्थव्यग्रकरकिङ्करीनिकरपरिगते विविधवसनाभर- णरमणीयतरशरीरे नगरनारीनिकरे भगवतो वन्दनार्थं व्रजति सति एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थं बहिर्निर्गतया कश्चिन्नरः पृष्टः क्वायं लोक एकमुखस्त्वरितं याति तेनोक्तं जगदेकबान्धवस्य देहिनां जन्मजरामरणरोगशोकदौर्गत्यादिदुःखच्छिदुरस्य : श्रीमन्महावीरस्य वन्दनपूजनाद्यर्थं । ततस्तच्छ्रवणात्तस्या भगवति भक्तिरभवदचिन्तयच्च, यथाहमपि भगवत: पूजार्थं यत्नं करोमि, केवलमहं दुर्गता पुण्यरहिता विहितपूजाङ्गवर्जितेति, ततोऽरण्यदृष्टानि मुधालभ्यानि सिन्दुवारकुसुमानि स्वयमेव गृहीत्वा भक्तिनिर्भराङ्गी अहो धन्या पुण्या कृतार्था कृतलक्षणाहं, सुलब्धं मम जीवितं, मनुष्यजन्मफलं वाहमवाप्तेतिभावनया पुलककण्टकितकाया प्रमोदजल- प्लवप्लावितकपोला भगवन्तं प्रति प्रयान्ती समवसरणकाननयोरन्तराल एव वृद्धतया क्षीणायुष्कतया च झगिति मृतिमुपागता, ततः साऽविहितपूजापि पूजाप्रणिधानोल्लसितमानसतया देवत्वमवाप्तवती, ततस्तस्याः कलेवरमवनीपीठलुठितमवलोक्यानुकम्पापरीतान्त:करणो लोको मूर्च्छितेयमिति मन्यमानोम्भसा सिषेच, ततस्तामपरिस्पन्दामवलोक्य .लोको भगवन्तं पप्रच्छ, भगवन्नसौ वृद्धा किं मृता ?, न जीवतीति ? भगवांस्तु व्याजहार यथा मृतासौ देवत्वं चावाप्ता।
तत: पर्याप्तिभावमुपगत्य प्रयुक्तावधे: पूर्वभवानुभूतमवगम्य मद्वन्दनार्थमागत: स चायं मत्पुरोवर्ती देव इति । ततो भगवदभिहितमिदमनुश्रुत्य समस्तसमवसरणधरणीगतो जन: परमविस्मयमगमत्, यथा-अहो ! पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तासाविति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org