SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३६ आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके ननु सम्यग्दर्शनेन किं कार्य ? चारित्रधर्म एव श्रेयानिति यो ब्रूयात्तस्य दूषणमाह तद्भावादुत्तरो धर्म:, साधुश्रावकलक्षणः । तस्मान्मिथ्यादृशः पापा:, साधुनिह्नवकारिणः ॥८१॥ तद्भावाद्दर्शनलाभभावादुत्तरो देशविरतिसर्वविरतिलक्षणो धर्मो दुर्गतिनिपतजन्तुजातधरणप्रवणो जीवपरिणाम:, यत: दुर्गतिप्रसृतान् जन्तून्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥ साधुश्रावकलक्षणो गृहियतिस्वरूप: तस्मान्मिथ्यादृशो विपरीतदृष्टयो न सन्ति दुष्षमायां साधव इति वादिनः ॥८१॥ यत: न विना साधुभिस्तीर्थं नाऽतीर्थे साधुसम्भवः । समं सत्ता तयोर्गीता, सर्वज्ञैः सर्वदर्शिभिः ॥८२॥ न विना न ऋते साधुभिर्मुनिभिस्तीर्थं संसारसागरसन्तरणतरण्डकल्पं, न च नैवातीर्थे जिनान्तरादौ साधुसम्भव: साधुसत्ता, सममेककालं सत्ता विद्यमानता तयो:साधुतीर्थयोर्गीता प्रतिपादिता, कैः? सर्वजैः सर्ववस्तुस्तोमविशेषवेदिभि: सर्वदर्शिभि: समस्तवस्तुसामान्यावलोकिभिः ॥८२॥ ननु भवतु शुभकाले सुषमासुषमादावुभयसत्ता, साम्प्रतं श्रावकैरेव तीर्थ यातीति यो मन्येत तन्मतं निरस्यन् श्लोकमाह अद्यापि दुःषमाकाले, यावदुष्प्रसहप्रभुः । तावच्चरणसत्तापि, भगवद्वाक्यत: स्थिता ॥८३॥ अद्याप्यधुनापि दु:षमाकाले कालचक्रस्य पञ्चमेऽरके कियन्तं कालं यावदिति परिमाणार्थः दुष्प्रसहो दुष्प्रसहाभिधान: प्रभु:सूरिस्तावदिति तावन्तं कालं चरणसत्तापि चारित्रसम्भवोऽपि भगवद्वाक्यत: श्रीमन्महावीरवर्धमानस्वामिवचनात्स्थिता प्रतिष्ठिता॥१॥ उक्तं च-दुप्पसहंतं चरणं, जं भणियं भगवया इहं तित्थे। आणाजुत्ताण इमं, न होइ अहुणत्ति वामोहो ॥१॥ [उपदेशपद ८०९] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy