SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३० आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके हारिहारैः शोभग्रमानमुक्ताफलाद्याभरणविशेषैः कङ्कणैर्हस्ताभरणैः बीजपूरकै: 'सुवर्णादिनिर्मितप्रसिद्धफलविशेषैः सद्रत्नस्वर्णपद्मादिभूषणैः प्रधानरत्नकनककमलाद्यनेकप्रवराभरणैर्भवभेदिनं संसारविदारकमिति ॥६५॥ शान्तं कान्तमित्यादि सुगममिति श्लोकत्रयार्थः ॥६६।। अथ वीतरागस्य पुष्पादिपूजाया अनुपयोगित्वमाशङ्क्य परिहरन् श्लोकत्रयमाह यदि ब्रूयान्नरः कोऽपि, पूजया किं प्रयोजनम् । वीतरागस्य ? वाच्योऽसौ, सत्यमेव त्वयोदितम् ॥६७॥ शीतोष्णकालयोर्यद्व-जनो यत्नेन सेवते । जलानलौ तयो:व, गुण: कोऽपि प्रजायते ॥६॥ तथापीहोपकारोऽस्ति, तत्सेवाकारिणामलम् । एवमेव स विज्ञेयो, जिनपूजाविधायिनाम् ॥६९॥ यदि ब्रूयाद्यदि वदेत् [नर:] मनुष्य: कोऽपि कश्चित्पूजया सपर्यया किमिति प्रश्ने प्रयोजनं कार्य, वाच्योऽसौ वक्तव्योऽसौ सत्यमेवाऽवितथमेव त्वया भवतोदितं भणितमिति, एवमाशयोत्तरमाह शीतोष्णकालयो: प्रतीतयोर्यद्वद्येन प्रकारेणजनोलोको यत्नेनादरेणसेवतेआश्रयते जलानलौ सलिलज्वलनौ तयोर्जलानलयोनॆव गुणो नैवोपकारः कोऽपि कश्चित्प्रजायत भवतीति ॥६७-६८॥ तथापीह तथाप्यत्रोपकारो गुणोऽस्ति विद्यते तत्सेवाकारिणां जलानलसेवाविधायिनां, तत्र जलम् सेवमानानां पङ्कदाहतृष्णापनोदलक्षणो गुणो जायते, अनलसेविनां पुन: शीतापगमादिक इति एवमेवेत्थमेव स उपकार: पुण्यबन्धलक्षणो-विज्ञेयो ज्ञातव्यो जिनपूजाविधायिनां सर्वज्ञसपर्याकारिणामिति उक्तञ्च "पूयाए कायवहो, पडिकुट्ठो सो य नेय पुजाणं । उवगारिणित्ति तो सा, परिसुद्धा कह ? णु होइत्ति ॥१॥ १ सुवर्णादिफलप्रसिद्ध BJPC| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002712
Book TitleDharmaratnakarandaka
Original Sutra AuthorVardhmansuri
AuthorMunichandravijay
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1994
Total Pages466
LanguageHindi
ClassificationBook_Devnagari, Literature, & Religion
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy