________________
अधिकार २ / श्लोक ६०-६६ / पूजाप्रकारा:
१२९
उक्तानि पुष्पाद्यष्टविधपूजाफलसूचकान्यष्टावपि कथानकानि, अथ प्रकारान्तरेण पूजामेवाह
अष्टस्वङ्गेषु वा पूजा, पुष्पैरष्टभिरर्हतः । विशुद्धप्रणिधानेन, कर्माष्टकक्षयङ्करी ॥६०॥ अष्टकर्मविनिर्मुक्त-पूज्य सद्गुणसूचिका। अष्टपुष्पी समाख्याता, फलं भावनिबन्धनम् ॥६॥ एकेनापि हि पुष्पेण, पूजा सर्वविदः कृता । त्रिजगत्यपि तन्नास्ति, वस्तु सद्यन्न यच्छति ॥६२॥
इति श्लोकत्रयं स्पष्टं, नवरमष्टावङ्गान्यमूनि शीर्ष उर: उदर: पृष्टिः द्वौ बाहू द्वे उरुणी एतेष्वष्टस्वङ्गेषु एकैकपुष्पदानात्पुष्पाष्टकम् अर्हतस्तीर्थकृतो विशुद्धप्रणिधानेन निर्मलान्त:करणेन कर्माष्टकक्षयङ्करी ज्ञानावरणाद्यष्टकर्मोच्छेदकारिणीति तथाऽष्टकर्मविनिर्मुक्तपूज्यसद्गुणसूचिकेत्यष्टकर्मविनिर्मुक्तश्चासौ पूज्यश्च तीर्थकृत्तस्य सद्गुणास्तेषां सूचिका प्रदर्शिका अष्टपुष्पीति संज्ञया समाख्याता कथिता फलं कार्यं भावनिबन्धनं शुभाध्यवसायनिमित्तं तथैकेनाऽपिहिपुष्पेणेति श्लोक: सुगम: इति श्लोकत्रयार्थः ॥६०-६२॥ अथ विलेपनपूजामाह
आदाय कुङ्कुमं रम्यं, कर्पूरोन्मिश्रचन्दनम् । विलेपनं जिनेन्द्रस्य धन्यैरेव विधीयते ॥६३॥
श्लोकोऽयं सुगमः अथाभरणपूजाभिधित्सया श्लोकत्रयमाह
नानारत्नसमाकीर्णै-हरिहाटकनिर्मितैः । कण्ठकैः कुण्डलैः कान्तः, कङ्कटैः कर्णपूरकैः ॥६४॥ हारिहारैर्महामूल्यैः, कङ्कणैर्बीजपूरकैः । सद्रत्नस्वर्णपद्मादि-भूषणैर्भवभेदिनम् ॥६५॥ शान्तं कान्तं शिवं सौम्यं, जिनबिम्बं यैर्न भूषितम् ।
श्रीणां कर्मकरा मूढा-स्ते नरा मूर्खशेखराः ॥६६॥ नानारत्नसमाकीर्णैरनेकरत्नसङ्कुलैर्हारिहाटकनिर्मितै: शोभायमानस्वर्णनिष्पन्न: कण्ठकै: कण्ठाभरणैः कङ्कटैर्मुकुटैः कर्णपूरकै: कर्णाभरणविशेषैरिति श्लोकार्थः ॥६४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org