________________
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
शिक्षिता द्विविधा शिक्षा, पठितं च बहु श्रुतम् । प्रतप्तं च तपस्तीव्रं, पालितं च व्रतं चिरम् ॥ १५३ ॥ विधायाराधनामन्ते, सिद्धान्तोक्तविधानतः । ततो मृत्वा सुरो जातः, षष्ठे कल्पे महर्द्धिकः ॥ १५४॥ | भुक्त्वा तत्र सुखं दिव्यं, सागराणि चतुर्दश । ततश्च्युत्वेह सञ्जातो, रससारो भवानिति ॥ १५५ ॥ श्रुत्वेमं निजवृत्तान्तं, पूर्वजन्मसमुद्भवम् । नरेन्द्रो रससारोऽपि, जातो जातिस्मरः क्षणात् ॥१५६॥ संवेगातिशयं बिभ्रत्, ब्रूते सूरिं कृताञ्जलिः । संसारवासतः स्वामि-निर्विण्णो नितरामहम् ॥ १५७॥ कृत्वा सौस्थ्यं निजे राज्ये, ग्रहीष्ये युष्मदन्तिके । संसारोत्तारिणीं दीक्षां, सकलक्लेशनाशिनीम् ॥ १५८ ॥ अत्रार्थे मा प्रमादीस्त्व- मित्युक्ते सति सूरिणा । सूरि प्रणम्य भूपालो, निजमन्दिरमागतः ॥ १५९ ॥ समस्तमन्त्रिसामन्त-सम्मतेन सतां मतम् । स्वराज्ये स्थापयामास, जयसारं निजाङ्गजम् ॥१६०|| यदन्यदपि कर्तव्यं, तदशेषं विधाय सः । श्रुतसुन्दरसूरीणा - मन्ते दीक्षां गृहीतवान् ॥ १६१॥ ततस्तेनाचिरादेव, संसारभयभीरुणा । गृहीता द्विविधा शिक्षा, ग्रहणासेवनरूपिका ॥ १६२॥ षष्ठाष्टमार्धमासादि-तपस्तप्तं सुदुष्करम् । द्रव्याद्यभिग्रहैः सार्धं, पालितः संयमश्चिरम् ॥ १६३॥ कृत्वा द्वादशवर्षाणि, संलेखनां विधानतः । पर्यन्तेऽनशनं कृत्वा, समभावसमन्वितः || १६४|| मृत्वा च वैजयन्तेऽसौ, सञ्जातोऽनुत्तरः सुरः । ततश्च्युत्वा विदेहेषु, राजा भूत्वा महाबलः ॥१६५॥ लब्ध्वा चारित्रसल्लक्ष्मीं, पालयित्वा च निर्मलाम् । प्रलीनाशेषकर्मांशो, गतः सिद्धिं महापुरीम् ॥ १६६ ॥
१२८
Jain Education International
इत्यष्टमपूजाफलकथानकं परिसमाप्तम्
For Private & Personal Use Only
www.jainelibrary.org