________________
१२६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
विचिन्त्यैवं पय:पूर्णं, कुम्भमादाय भक्तित: । स्नापयामास तद्विम्बं, रोमाञ्चाञ्चितविग्रहा ।।११०।। ततश्च स्थापयामास, पय:पूर्ण मनोहरम् । प्रत्यग्रं मृन्मयं कुम्भं, भावसारं तदग्रतः ॥१११।। एवं चानेकधा तत्र, दृष्टं दुर्गतया तया। क्रियमाणं जिनेन्द्रस्य, स्नात्रं नानाविधैर्जनैः ॥११२॥ तयापि स्नापितं तत्र, तद्विम्बं भूरिशो जलैः । पूजितं च मुधालभ्यैः, कुसुमैः काननोद्भवैः ॥११३।। अथाऽसौ स्वायुषश्छेदे, दुर्गता स्त्री मृता सती। तस्मिन्नेव पुरे जाता, सिंहसेनमहीपतेः ॥११४।।
__ चन्द्रश्रीकुक्षिसम्भूता, दुहिता कुन्दकन्दली।
रूपसौभाग्यसम्पन्ना, लावण्यामृतकूपिका ॥११५॥ अथासौ वर्धते बाला, पुष्णन्ती सकला: कला: । क्रीडाभिश्च ह्यनेकाभिः, क्रीडन्ती हर्षनिर्भरम् ॥११६॥ अन्यदा च जगामासौ, सखीवृन्दसमन्विता। तत्रैव सर्वतो रम्ये, कानने कुन्दसुन्दरे॥११७।। इतश्चेतो भ्रमन्ती च, नानाक्रीडापरायणा । तमेवालोकयामास, पूर्वदृष्टं जिनालयम् ॥११८॥ ततस्तत्र प्रविष्टासौ, तबिम्बं च विलोकितम् । वीक्षितं च चिरं कालं स्निग्धमन्थरया दृशा ॥११९।। तथासौ चिन्तयामास, क्व मन्ये दृष्टपूर्वकम् । जैनचन्द्रमिदं गेहं, बिम्बं चेदं मनोहरम् ॥१२०॥ काननं च मनोहारि वृक्षसन्दोहसङ्कुलम् । पत्तनं च जनश्चैष, क्व दृष्टोऽयं नराधिपः ॥१२१॥ एवं विचिन्तयन्त्याश्च, तस्याः शुद्धिविशेषत: । जातिस्मरणमुत्पन्नं, प्राचीनभवगोचरम् ॥१२२।। तेनालोकि स्ववृत्तान्त:, सर्व: पूर्वभवोद्भव: । ततो मूर्छावशादेषा, पपात धरणीतले ॥१२३।। ततश्चाकुलचित्तेन, सखीलोकेन सत्वरम् । वीजिता तालवृन्ताद्यैः, सिक्ता शीतलवारिणा ॥१२४|| क्षणेन लब्धचैतन्या, स्वस्थीभूता समुत्थिता । वृत्तान्तमिममाकर्ण्य, तत्रायातो नरेश्वरः ॥१२५॥ तत: पृष्टा नरेन्द्रेण, मूर्छाकारणमादरात् । तयापि कथित: सर्व-स्तस्मै पूर्वभवो निजः ॥१२६॥ ततश्च विस्मितो राजा, शेषलोकश्च पौरव: । हृष्टः प्रशंसयामास, जिनपूजामहाफलम् ।।१२७॥ तत: समग्रसामग्या, सर्वैः सद्गन्धवस्तुभिः । महर्या कारितं राज्ञा, स्नानं तत्र जिनालये ॥१२८॥ ततश्च कुन्दकन्दल्या, पूजितोऽसौ जिनेश्वरः । कर्पूरकुङ्कुमोन्मिश्र-सच्चन्दनविलेपनैः ।।१२९॥ पूजितश्च महामूल्य-वस्त्रपुष्पादिवस्तुभिः । तत: स्तोतुं समारब्धा, संवेगभरनिर्भरा ॥१३०॥ तद्यथा- जय जय जिण तिजगुत्तम!, जय जय तेलोकमंगलपईव!। .
जय जय सुरसयसंथुय! जय जय तेलोक्कसिरिनिलय! ॥१३॥ जय जय गुणमणिरोहण !, जय जय पणयाण सयलसुहजणय! । जय जय तिहुअणबंधव!, जय जय पहु तिहुयणाणंद! ॥१३२॥ तुह थोविआवि भत्ती, महल्लकल्लाणकारणं होइ । होइ चिय बहुफलयं, थोपि सुखेत्तगयबीयं ।।१३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org