________________
अधिकार २ / श्लोक ५०-५९ / जलपूजायां रससारकथा
१२५
द्वादशाहे च संवृत्ते, महद्वर्योत्सवपूर्वकम् । जयसार इति ख्यातं, तस्य नाम प्रतिष्ठितम् ॥८१।। अथासौ ववृधे बालो, धात्रीपञ्चकलालितः । शशीव प्रत्यहं लोक-लोचनानन्ददायकः ॥८२।। क्रमेण यौवनस्थेन तेनोढा राजकन्यका । दत्त्वा छत्राद्यलङ्कारान्, पित्रा स युवराट् कृतः ॥८३॥ अन्यदा बहिरुद्याने वनसुन्दरनामनि । विहरन्त: समायाता:, सूरय: श्रुतसुन्दरा: ॥८४|| अवग्रहमनुज्ञाप्य, स्थाने साधूचिते स्थिता: । निर्गता वन्दनाद्यर्थं, नयरान्नागरा जनाः ॥८५॥ अथैवं हेलया लोकं, निर्गच्छन्तं पुराद्वहि: । दृष्ट्वा पप्रच्छ भूपालः, स्वं पुमान्सं सकौतुकः ॥८६|| स प्राह मयका राजन् !, जल्पन्नेवं जन: श्रुतः । यथेह सूरय: केचि-दुद्याने बहिरागता: ॥८७॥ तेषामेष जन: सर्वो, वन्दनार्थं विनिर्गत: । श्रुत्वेदं रससारोऽपि, कृत्वा सामग्रिका क्षणात् ।।८८॥ जगाम सिन्धुरारूढ: कानने सूरिसन्निधौ । भक्त्याभिवन्द्य तं सूरि, नातिदूरे निषण्णवान् ॥८९॥ तत: सदर्थगम्भीर-वरवाक्यैः सुकोमलैः । सूरिभिर्भूरिसंवेगैः, प्रारब्धा धर्मदेशना ॥१०॥ तद्यथा-यानपात्रं भवाम्भोधे-१तिद्वाररोधिका । दया धर्मस्य सर्वस्वं, कर्तव्या सर्वदा बुधैः ॥९॥ सत्यं हितं प्रियं वाक्यं, वाच्यं सत्त्वसुखावहम् । सर्वदापि परित्याज्यं, चौर्यं दुःखनिबन्धनम् ॥९२।। मातेव सर्वदा दृश्या, धार्मिकेण पराङ्गना। परित्क्षज्य: सदा धीरे-महारम्भपरिग्रहः ॥१३॥ संसारसौख्यवैमुख्यं, विधेयं सुधियाधिकम् । कार्य: सज्जनसंसर्गो, न कार्याऽनार्यसङ्गतिः ॥९४॥ इत्याद्यनेकधा धर्म-माचक्षाणं मुनीश्वरम् । नत्वा प्रस्तावमासाद्य, रससारोऽब्रवीदिदम् ॥१५॥ भगवन् ! किं मयाकारि ?, सुकृतं पूर्वजन्मनि । येनेदृक्षा मम स्फीता:, सञ्जाता राज्यसम्पदः ।।९६।। सूरि: प्राह महाभाग !, कथ्यते शृणु सादरम् । इतो भवाच्चतुर्थे त्वं, भवे हर्षपुरे पुरे ॥९७|| बभूव दुर्गता नारी, परकर्मकरी सदा । इतश्च नगरात्तस्मा-द्रव्यूतान्तरसंस्थितम् ॥९८॥ आसीजनमनोहारि, काननं कुन्दसुन्दरम्। तत्र शुभ्राभ्रसङ्काशं, तुझं जैनेन्द्रमन्दिरम् ।।९९॥ तस्य मध्ये शिवं शान्तं, बिम्बं जैनेश्वरं महत् । तत्सुतीर्थमिति ख्यातं, जनवाञ्छितपूरकम् ॥१००॥ तत्र चानेकदेशेभ्य:, समायाति बहुर्जनः । स्तोत्रं पूजां बलिं चैव, विदधाति निरन्तरम् ॥१०॥ अथासौ दुर्गता नारी, कानने कुन्दसुन्दरे । कृता लोकैः प्रपापाली, जनं पाययते पय: ।।१०२।। अन्यदा च समायाता:, श्रीमन्तो बहवो जना: । महद्धर्चा तैः समारब्धं, स्नात्रं तत्र जिनालये ॥१०३।। सापि तत्र प्रपापाली, गता स्नात्रदिदृक्षया । स्नाप्यमानस्तया दृष्टो, जिन: कुम्भैः पयोभृतैः ॥१०४॥ ततो हर्षभरापूर्णा, मनस्येवं व्यचिन्तयत् । अहो धन्या इमे लोका:, पुण्यवन्त: कृतार्थका: ॥१०५॥ श्लाघ्यमेषामिदं जन्म, य एनं परमेश्वरम् । कुङ्कुमोदकसम्पूर्णैः, सत्कुम्भैः स्नपयन्त्यहो ॥१०६।। अहमपुण्याऽधन्यैव, निष्पुण्या दुःखदुःखिता। दुर्गदारिद्यसन्दग्धा, किं कुर्वे धनवर्जिता ? ॥१०७॥ ममापि वसुधालभ्य-मत्र सम्पद्यते पय: । न च कुङ्कुमकर्पूर-श्रीखण्डादि धनं विना ॥१०८॥ अतोऽहं केवलेनापि, नीरेण परमेश्वरम् । स्नपयामि ममापीह, येन धर्मः प्रजायते ॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org