________________
आचार्य श्रीवर्धमानसूरिचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
विशाम्यग्नौ प्रदीप्तेऽहं, यदि नाद्य धराधरम् । वर्षयामि यथावाञ्छं, युष्माकं पश्यतामहो! ॥५४॥ यत:- आरंभो चिय न फुरइ, अहव समत्थाण फुरइ आरंभो।
आरंभो य समप्पइ, अहव समत्था समप्पंति ॥५५॥ एवं च निश्चयं कृत्वा, यावदास्ते कुमारकः । तावत्क्षणान्तरात्प्रोच्चै-रभैराच्छादितं नभः ।।५६।। झम्पाभिरुत्थिता विद्यु-ज्जजृम्भे गर्जिरञ्जसा । दृश्यन्ते पञ्चवर्णानि, पुरन्दरधनूंषि च ॥५७।। अतीव स्थूलधाराभिः, प्रवृत्ता वर्षितुं घना: । अन्धारिता दिश: सर्वाः, अभ्रवातैर्विसर्पिभिः ॥५८॥ केकिनश्च प्रमोदेन, केकायन्ते दिशोदिशम् । पूत्कुर्वन्ति च सानन्दाः, सर्वतोऽपि कृषीवला: ॥५९॥ मालिता भूर्जलप्लावै-विसर्पद्भिरितस्तत: । पूरितानि पय:पूरैः, सरांसि सुमहान्त्यपि ॥६०॥ प्रवहनिर्झरा-रावै:, श्रूयते नैव जल्पितम् । पीडयन्त्यस्तटान्युच्चै-र्वहन्ते सरितस्तराम् ॥६॥ स्वस्थीभूतानि चेतांसि, सर्वेषामपि देहिनाम् । सप्रमोदा विशेषेण, जाता भिक्षाचरा नरा: ॥६२।। समन्तादुत्थित: प्रोच्च-र्द१राणां महारव: । शब्दमयमिदं सर्वं, कुर्वनिव महीतलम् ॥६॥ धान्यानि च समर्घाणि, सञ्जातानि झटित्यपि । जाता च जीवितव्याशा, नृणां 'दरिद्राणां दृढम्॥ एवं सर्वप्रजानन्दे, चिरवृष्टया घने स्थिते । स्वस्थीभूते जने सर्वे, सानन्दे च नराधिपे ॥६५॥ नियूंढस्वप्रतिज्ञोऽसौ, रससारकुमारकः । समुत्थाय तत: स्थाना-दायात: पितुरन्तिकम् ॥६६|| तत: प्रणम्य राजानं, तदासन्नं निषण्णवान् । श्लानि च जनैः सर्वै-स्तस्य सत्त्वं मुहुर्मुहुः ।।६७॥ आस्तां तावनिजो लोकः, सन्तो वा गुणरञ्जिता: । तस्य सत्त्वं दुराराध्यै-दुर्जनैरपि वर्णितम् ।।६८।। एवं च सर्वदेशेषु, ग्रामे ग्रामे पुरे पुरे । वर्ण्यन्ते सद्गुणास्तस्य, सर्वलोकै: सविस्मयम् ।।६९॥ तत्रैके तस्य पुण्यानि, वर्णयन्ति महौजसः । अन्ये पुनर्महासत्त्व-मन्ये पुन: पराक्रमम् ॥७॥ अन्ये वचनचातुर्य-मन्ये सद्रूपसम्पदम् । अन्ये सत्त्वप्रतिष्ठत्व-मौदार्यमपरे तथा ॥७१।। अन्ये कलासु कौशल्यं, सौशील्यमपरे पुन: । अन्ये परोपकारित्वं, दाक्षिण्यं त्वपरे जना: ॥७२॥ तस्यैवमासमुद्रान्तं, कुमारस्य महात्मनः । क्रमेणोल्लसिता कीर्तिः, शङ्खकुन्देन्दुनिर्मला ।।७।। एवं च श्लाघ्यमानोऽसौ, मान्यमांनो महाजनैः । वल्लभो भूपतेर्बाढं, भुङ्क्ते विषयजं सुखम् ।।७४|| अन्यदा स महीनाथो, गुणसारश्चिरं महीम् । पालयित्वा निजे राज्ये, निजं पुत्रं न्यवेशयत् ।।७५॥ रससारं गुणाधारं, सदाचारं सतां समम् । सम्मतं राजलोकानां, सर्वसामन्तमन्त्रिणाम् ॥७६॥ स्वयं पुनर्विनिर्गत्य, पुरादाभाष्य पौरवान् । कुलक्रमसमायातं, वनवासमशिश्रियत् ॥७७।। रससारस्ततो राजा, सञ्जातश्चण्डशासन: । सूर्य इव प्रतापेन, समाक्रान्तरसातल: ॥७८।। अन्यदा च महादेवी, नाम्ना सौभाग्यसुन्दरी। सर्वलक्षणसम्पूर्णं, पुत्ररत्नमजीजनत् ॥७९|| कारितश्च तत: पित्रा, पुत्रजन्ममहोत्सव: । कृतसर्वजनानन्दः, पूरितार्थिमनोरथः ॥८॥ १ दारिद्रिणां-BIC मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org