________________
अधिकार २ / श्लोक ५०-५९ / जलपूजायां रससारकथा
१२३
एवं हल्लोहले जाते, लोकानां दौ:स्थ्यदायिनि । सुभिक्षं देशमाश्रित्य, लोकेषु च यियासुषु ॥२७॥ ततश्च भूपतेश्चिन्ता, जाता सम्भ्रान्तचेतसः । कथं नु मामके देशे, वर्षिष्यति घनं घनः ॥२८॥ शुष्यन्ति तावदेतानि, सस्यानीह विना जलम्। विना धान्यं न जीवन्ति, मामकीना इमा: प्रजाः ॥२९॥ विना लोकं न जायन्ते, ममापि द्रव्यसम्पदः । विना द्रव्यमिमे भृत्या, न स्थास्यन्ति ममान्तिकम् ॥३०॥ विना भूत्यैर्न मे राज्यं, स्थिरं सम्भाव्यते चिरम् । विना राज्यं भविष्यामि, लघूनामप्यहं लघुः ॥३१॥ एवं विचिन्त्य भूपेन, समाहूता: स्वमन्त्रिण: । प्रधानपौरलोकाश्च, ततश्चैवं प्रजल्पितम् ॥३२॥
भो ! भो ! मे मन्त्रिण: प्राज्ञा!, भो भो: पौरा: ! सुबुद्धय: !।
दुर्भिक्षं जायते लग्नं, कथ्यतां किमु कुर्महे ? ॥३३॥ चिन्त्यतां कोऽप्युपायोऽत्र, येन मेघ: प्रवर्षति । श्रुत्वेदं भूपतेर्वाक्यं, तत्रेत्थं कैश्चिदूचिरे ॥३४॥ इज्यन्तां विविधा यज्ञाः, पूज्यन्तां ब्राह्मणास्तथा। हूयन्तांभूरिसपीषि, ज्वलज्ज्वालाकुलेऽनले॥३५॥ अन्ये पुनरिदं प्राहु-र्वक्रस्थानं गता ग्रहा: । तैश्च विष्कम्भितं तोयं, 'देवस्तेन न वर्षति ॥३६।। ततश्च क्रियतां पूजा, ग्रहाणामत्र सादरम् । येन ते प्रीणिता: सन्त-स्तोयं कुर्वन्ति मुत्कलम् ॥३७॥ अन्यैरभाणिभोराजन्!, सन्ति पाखण्डिनोऽत्र ये। तें समाहूय पृच्छयन्तां, जलविष्कम्भकारणम्॥३८॥ अन्ये प्रोचुः, प्रजाभाग्यं, यद्यस्तीह तदा ध्रुवम्। पतिष्यन्त्येव तोयानि, नान्यथेति किमाकुला: ? ॥३९॥ अन्यैः पुनरिदं प्रोक्तं, कूर्चामर्षणपूर्वकम् । भो राजन् ! यद्वयं ब्रूम-स्तदाकर्णय साम्प्रतम् ॥४०॥ य: कश्चिदत्र सत्पुण्यो, महासत्त्वो नरोत्तमः । यद्यसौ सत्त्वमालम्ब्य, निश्चयं कुरुते नृप! ॥४१॥ जलं वा पातयाम्यद्य, वह्नौ वा प्रविशाम्यहम् । यद्येवं कुरुते कोऽपि, तदा वर्षति माधव: ॥४२।। श्रुत्वेदं नरनाथेन, मन्त्रिलोकप्रजल्पितम् । तथैवाकारि यज्ञाद्यं, सर्वं नो पतितं जलम् ॥४३॥ ततो ज्योतिष्कका: केचि-न्महासत्त्वाश्च केचन । निश्चयं कर्तुमारब्धा: स्पर्धमाना: परस्परम् ॥४४|| तत्र ज्योतिष्कका: प्राहु-र्यद्यहो पञ्चमे दिने । पातयामो न तोयानि, मुञ्चामो खटिकां ततः ।।४५॥ एवं कैश्चिद्दिनं षष्ठं, सप्तमं चाष्टमं तथा । प्रतिज्ञातं न चाम्भांसि, निपतन्ति कथञ्चन ।।४६॥ ततश्च ये महासत्त्वा:, महासत्यश्च तत्र या: । स्थितास्ते ताश्च निश्चित्य, न च मेघ: प्रवर्षति ॥४७॥ श्रुत्वेदमथ वृत्तान्तं, रससार: कुमारकः । समागत्य सभास्थानं, प्रणम्य च नराधिपम् ॥४८॥ एवं ब्रूते यथा देव !, मेघं प्रवर्षयाम्यहम् । अद्यैव निश्चितं नो चेत्, प्रविशामि हुताशनम् ॥४९॥ आकर्येदं ततो राजा, ब्रूते लोका: समन्त्रिण: । हा हा मा मा महाभाग!, भाणीरेवंविधं वचः॥५०॥ जीव नन्द चिरंकालं, पालयस्व निजा: प्रजाः। भुङ्क्ष्व त्वंभो महाभोगान्, प्रजांभाग्यैः सुरक्षितः॥५१॥ श्रुत्वेदं कुमर: प्राह, राजन् ! मा मा भयं कृथाः । एषोऽहं वर्षयाम्यद्य, देवं पश्य क्षणान्तरम् ॥५२॥ वारंवारं कृतारावं, जनानां वारयतामपि । दुर्निर्वाह्यां महासत्त्वः, प्रतिज्ञां कृतवानिमाम् ॥५३॥ १BIC मेघ मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org