________________
१२२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
जलपूजायां रससारकथा
घृतपूजाफलं प्रोक्तं, स्वर्गमोक्षप्रसाधकम् । साम्प्रतं जलपूजाया: फलं शृणुत कथ्यते ॥१॥ बभूव भुवने ख्यातो, ग्रामाकरपुराकुल: । बङ्गाजनपदस्तत्र, पुरं विश्वपुराभिधम् ॥२॥
गुणसारो नृपस्तत्र, प्रजापालो महाबल: ।
तद्भार्या रूपसौभाग्य-सम्पन्ना बन्धुसुन्दरी ॥३॥ अन्यदा च तया स्वप्ने, दृष्टा मेघा: समुन्नता: । सर्वतोऽपि जलप्लावै: प्लावयन्तो महीतलम् ।।४।। तत: शिष्टस्तया स्वप्न:, समानन्दितचित्तया। सादरं नरनाथाय, सुष्ठ कोमलया गिरा ॥५॥ तेनाभाणि प्रिये ! श्रेष्ठः, पुत्रस्तव भविष्यति । सर्वेषामपि लोकानां, मनोवाञ्छितपूरकः ।।६।। प्रादुर्भूतस्ततो गर्भ-स्तस्याः कुक्षौ सुखप्रदः । अथ सोवाह तं गर्भ, सम्पूर्णाखिलदोहदा ।।७।। तस्मिन् गर्भस्थिते वृष्टाः, सर्वत्रापि धनं घना: । पूरिता च जलप्लावै: सर्वतोऽपि हि मेदिनी ॥८॥ सर्वेषामपि सञ्जाता, रसानां वृद्धिरुच्चकैः । धान्यानि च समर्घाणि, सर्वदेशेषु जज्ञिरे ॥९॥ वासरेषु च पूर्णेषु, पुत्रं सासूत सुन्दरम् । कारितं च तत: पित्रा, वर्धापनकमङ्गलम् ॥१०॥ स्वप्नानुसारतस्तस्य, महामहःपुरस्सरम् । रससार इति ख्यातं, कृतं नाम यथार्थकम् ॥११॥ अथासौ वर्धते बाल:, कलाभिर्वपुषापि च । क्रमेण यौवनं प्राप्तो, धर्मकामार्थसाधकम् ॥१२॥ परिणीतास्ततस्तेन, रूपयौवनगर्विता: । विशालकुलसम्भूता, अनेका राजकन्यका: ॥१३।। पूर्णाशेषमनोवाञ्छ-स्ताभिः सार्धमखण्डितम् । शब्दादिविषयांस्तुष्टो, भुङ्क्ते पञ्चविधानपि ॥१४॥ अथ सोऽद्भुतशौर्येण, चक्रे क्षोभं हृदि द्विषाम् । चेतांसि चोरयामास, कामिनीनां सुलीलया ॥१५॥ सन्मानेन स्वमन्त्रिणां, परां तुष्टिं चकार स: । विदुषां विनयादेव, हृद्यानन्दं ददाविति ॥१६॥ इत्यादिभिर्गुणग्रामैः, सर्वलोकातिशायिभिः । शत्रवोऽपि हि तेनोच्चैः, शिर:कम्पं विधापिता: ॥१७॥ अन्यदा तत्र वर्षासु, धान्यपूर्णेषु भूतले । उद्गतेषु च नो मेघ:, कथञ्चिदपि वर्षति ॥१८॥ तत: शुष्यन्ति धान्यानि, वान्ति वाता: सुंदारुणा: । तपत्यर्को धरापीठं, द्वादशार्कसमर्गलम् ।।१९।। जलाशयेषु सर्वेषु, त्रुट्यन्ति च पयांस्यलम् । गोरूपाणि च सीदन्ति, विना वारि गृहे गृहे ॥२०॥ बुभुक्षाक्रान्तदेहानि, म्रियन्ते तानि कानिचित् । आसते च गृहद्वारे, पतितानि च कानिचित् ॥२१॥ सानन्दा मानसे जाता, धान्यसङ्ग्रहकारिणः । विषण्णा दुर्गता लोका, जाताश्चिन्तातुरा हृदि ॥२२॥ बहुर्भिक्षाचरो लोको, वर्धते च दिने दिने । श्रीमन्तोऽपि हि नेच्छन्ति, भिक्षां दातुं तदर्थिनाम् ॥२३॥ त्यागिनोऽपि हि ये लोका:, सुप्रसिद्धा मनस्विनः । तैरपि चेतसा सार्धं, हस्त: सङ्कोचितो दृढम्॥२४॥ मूल्यं चटितुमारब्धं, धान्यानां प्रतिवासरम् । तानि दातुं न वाञ्छन्ति, धान्यसङ्ग्रहकारिण: ॥२५॥ यथा यथा न तादृक्षा, भिक्षा गेहेषु लभ्यते । तथा तथा मन: क्षोभो, जात: पाखण्डिनामपि ॥२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org