________________
अधिकार २ / श्लोक ५०-५९ / घृतपूजायां गोधनकथा ७
I
हृषीकवर्गसम्पाद्ये पामाकण्डूयनोपमे । परार्थेऽपि च दुःखेऽपि, सुखलेशेऽतिगृद्धयः ||| १०८॥ स्वर्गोऽयं परमार्थोऽयं, लब्धोऽयं सुखसागरः । अस्माभिरिति मन्यन्ते, विपर्यासवशं गताः ॥१०९॥ ततो हार्दं तमस्तेषां, प्रतिसर्पति सर्वत: । विवेकशेषकाश्चित्ते, वर्धन्ते रागरश्मयः ॥ ११०॥ प्रणष्टसत्यसद्भावा, अन्धीभूतस्वबुद्धयः । कुर्वन्तोऽनार्यकार्याणि, वार्यन्ते केन ते ततः ? ॥ १११ ॥ धर्मलोकविरुद्धानि, निन्दितानि पृथग्जनैः । कार्याणि कुर्वतां लोकः, शत्रुभावं प्रपद्यते ॥ ११२ ॥ कुलं चन्द्रांशुविशदं, ते कुर्वन्ति मलीमसम् । आत्मीयचरितैः पापा:, प्रयान्ति जनहास्यताम् ॥११३॥॥ अगम्यगमनासक्ता, निर्मर्यादा नराधमाः । अर्कतूलादपि परं, ते जने यान्ति लाघवम् ॥ ११४॥ दुर्लभा हि मनोऽभीष्टा, विषया: स्त्र्यादिगोचराः । प्राणिनां हृदि वर्तन्ते, न लभ्यन्ते यथेप्सिताः ॥ ११५ ॥ तदा ते यानि दुःखानि, याश्च लोके विडम्बना: । प्राप्नुवन्ति न शक्यन्ते, ता व्यावर्णयितुं गिरा ॥ ११६ ॥ केवलं गदितुं शक्य-मिदमेव समासतः । लभन्ते ते नरा सर्वा, लोके दुःखविडम्बना: ॥११७॥ प्रकृत्यैव भवन्त्येते, गुरुदेवतपस्विनाम् । प्रत्यनीका महापापा, निर्भाग्या गुणदूषकाः ॥११८॥ सन्मार्गपतितं वाक्य - - मुपदिष्टं हितैषिणा । केनचिन्न - प्रपद्यन्ते, महामोहेन दूषिताः ॥ ११९ ॥ ततश्चेदं मुनेर्वाक्यं, विनिश्चित्य महीभृता । विचिन्तितं निजे चित्ते, अहो सद्धर्मदेशकाः ॥१२०॥ रञ्जितो हृदये राजा, सभा सन्तोषमागता । यथायोगं गुणस्थानं, प्रतिपद्य गृहं गता ॥१२१॥ उत्तमोत्तमनरैर्भाव्यं, नियम्येन्द्रियपञ्चकम् । नृजन्म सफलं कार्यं, विजयवर्धन ! त्वया ॥१२२॥ इत्येवं सूरिभिः शिष्टे, धर्मे सर्वज्ञभाषिते । राजाह रञ्जितस्वान्तः, संवेगातिशयं वहन् ॥ १२३॥ भगवन्निर्जितास्ताव-देते बाह्या मया द्विषः । आन्तरानपि निःशेषान्, जेतुमिच्छामि साम्प्रतम् ॥ १२४॥ एते च सर्वदा पूज्य- पादसेवनतत्परैः । शक्यन्ते हि निराकर्तुं, मादृशैरत्र नान्यथा ॥ १२५॥ तथाहं निजराज्यस्य, सौस्थ्यं कृत्वा यथोचितम् । ततो दीक्षां गृहीष्यामि, पूज्यानामन्तिके प्रभो ! ॥ मा प्रमादं कृथा भद्र !, सर्वथात्र प्रयोजने । एवं सूरिभिरादिष्टे, ततो राजा समुत्थितः ॥१२७॥ गतो हे ततः शिष्टः, स्वाभिप्रायः स्वमन्त्रिणाम् । ततश्च स्थापितो राज्ये, पुत्रो मदनसुन्दरः ॥ १२८ ॥ दत्ता शिक्षा ततस्तस्य, मन्त्रिणां च यथोचितम् । यदन्यदपि कर्तव्यं, तत्कृतं स्वयमेव हि ॥ १२९ ॥ ततोऽसौ नन्दनोद्याने, गत्वा सूरिपदान्तिके । जग्राह विधिना दीक्षां सर्वकर्मक्षयङ्करीम् ॥१३०॥ शिक्षिता द्विविधा शिक्षा, पठितं च बहु श्रुतम् । पालितश्च चिरं चारुः, संयमस्तपसा सह ॥ १३१॥ आगमोक्तविधानेन, विधायानशनं ततः । मृत्वा च द्वादशे कल्पे, जातो देवों महर्द्धिकः ॥१३२॥ ततश्च्युत्वा महाराज - वंशे भूत्वा महानृपः । सम्प्राप्य शुद्धचारित्रं, निष्कलङ्क प्रपाल्य च ॥१३३॥ आरुह्य क्षपकश्रेण्यां, हत्वा घातिचतुष्टयम् । उत्पाद्य केवलज्ञानं, कृत्वा भव्यप्रबोधनम् ॥ १३४॥ भवोपग्राहिकर्माणि, शुक्लध्यानकृशानुना । निर्दह्य निर्वृतौ प्राप्तो, जातः सिद्धः सुखालयः ॥ १३५ ॥ घृतपूजाकथानकम् समाप्तम् ॥
For Private & Personal Use Only
Jain Education International
१२१
www.jainelibrary.org