________________
१२०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
उत्कृष्टास्ते नरा ज्ञेया, यैश्च पञ्चेन्द्रियं जितम् । अवाप्य मानुषं जन्म, शत्रुबुद्धयावधारितम् ॥७९॥ भाविभद्रतया तेषां, परिस्फुरति मानसे । नैवैतत्सुन्दरं हन्त, पापमिन्द्रियपञ्चकम् ।।८०॥ ततो विज्ञाय ते तेषां, लोकवञ्चनतां नरा: । सर्वत्र चकिता नैव, विश्वसन्ति कदाचन ।।८।। न चानुकूलं चारित्रं, भजन्ते विजितस्पृहा: । ततस्तजनितैर्दोषै-र्न युज्यन्ते विचक्षणा: ।।८२।। शरीरस्थितिमात्रार्थ-माचरन्तोऽपि तत्प्रियम् । तत्र गृद्धेरभावेन, भवन्ति सुखभाजनम् ।।८३॥ प्राप्नुवन्ति यश: शुभ्र-मिह लोकेऽपि ते नरा: । स्वर्गापवर्गमार्गस्य, निकटे तादृशा: सदा ॥८४|| गुरव: केवलं तेषां, नाममात्रेण कारणम् । मोक्षमार्गे प्रवर्तन्ते, स्वत एव हि ते नरा: ॥८५॥ अन्येषामपि कुर्वन्ति, शुद्धमार्गावतारणम् । तद्वाक्यं ये प्रपद्यन्ते, विज्ञाय गुणकारणम् ॥८६॥ ये पुन र्न प्रपद्यन्ते, तद्वाक्यं बालिशा जनाः । तेषामनादरं कृत्वा, ते तिष्ठन्ति निराकुला: ॥८७॥ प्रकृत्यैव भवन्त्येते, देवाचार्यतपस्विनाम् । पूजासत्कारकरणे, रक्तचित्ता महाधियः ॥८८॥ इदमेवमुत्कृष्टानां, साधितं चरितं नृणाम् । साम्प्रतं मध्यबुद्धीनां, कथ्यमानं निशम्यताम् ॥८९॥ मध्यमास्ते नरा ज्ञेया, यैर्हषीककदम्बकम् । अवाप्य मानुषं जन्म, मध्यबुद्ध्यावधारितम् ॥९०॥ इन्द्रियग्रामसम्पाद्ये, सुखे ये गृद्धमानसा: । पण्डितैरनुशिष्टाश्च, दोलायन्ते स्वचेतसा ।।९१॥ चिन्तयन्ति निजे चित्ते, ते दोलायितबुद्धयः । विचित्ररूपसंसारे, किमत्र बत कुर्महे ? ॥९२॥ भोगानेके प्रशंसन्ति, रमन्ते सुखनिर्भरा: । अन्ये शान्तान्तरात्मानो, निन्दन्ति विगतस्पहा: ॥९३।। तदत्र कतरो मार्गो, मादृशामिह युज्यते । न लक्षयामस्तच्चित्तं, सन्देहमवगाहते ॥१४॥ तस्मात्कालविलम्बोऽत्र, युक्तोऽस्माकं प्रयोजने । नैवैकपक्षनिक्षेपो, विधातुमिह बुद्धयते ॥९५।। मध्यमानां भवेबुद्धि-र्यादृशी कर्मपद्धतिः । यस्मादाचक्षते सन्तो, बुद्धि: कर्मानुसारिणी ॥९६॥ तत इन्द्रियवर्गं ते, मन्यन्ते सुखहेतुना । अनुकूले च वर्तन्ते, किन्तु नात्यन्तलोलुपाः ॥९७॥ ततो लोकविरुद्धानि, नाचरन्ति कदाचन । पञ्चेन्द्रियवशं प्राप्ता, नापायान् प्राप्नुवन्त्यत: ॥९८॥ हितेनोक्ता: प्रबुध्यन्ते, विशेषवचनस्य ते । अदृष्टदोषास्तद्वाक्यं, केवलं नाचरन्ति ते॥१९॥ मैत्री बालिशलोकेन, कुर्वन्ति स्नेहनिर्भराम् । लभन्ते तद्विपाकेन, रौद्रां दुःखपरम्पराम् ॥१००। अवर्णवादं लोके च, प्राप्नुवन्ति न संशयः । संसर्ग: पापलोकेन, सर्वानर्थपरो यतः ॥१०॥ यदा पुन: प्रपद्यन्ते, विदुषां वचनॉनि ते । आचरन्ति च विज्ञाय, तदीयां हितरूपताम्॥१०२|| तदा ते विगताबाधा, भवन्ति सुखिनो नरा: । महापुरुषसम्पर्का-ल्लभन्ते मार्गमुत्तमम् ॥१०३।। पण्डिता इव ते नित्यं, गुरुदेवतपस्विनाम् । बहुमानपरा: सन्त:, कुर्वन्त्यर्चनवन्दनम् ।।१०४|| तदेवं भणितास्ताव-न्मध्यमानां गुणाऽगुणा: । जघन्यनरसम्बन्धे स्वरूपमधुनोच्यते ॥१०५।। जघन्यास्ते नरा ज्ञेया, ये हृषीकवशं गताः । सम्प्राप्य मानुषं जन्म, करणैर्ये विनिर्जिता: ॥१०६।। परारिरूपतां तेषां, न जानन्ति यत: स्वयम् । परेषामपि रुष्यन्ति, विदुषां हितभाषिणाम् ।।१०७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org