________________
अधिकार २ / श्लोक ५०-५९ / घृतपूजायां गोधनकथा ७
११९
सूरिः प्राह-स्पर्शनं रसनं घ्राणं, चक्षुः श्रोत्रं च पञ्चमम् ।
एतानि तानि राजेन्द्र !, हृषीकाणि प्रचक्षते ॥५३।। इष्टैः स्पर्शादिभिस्तोषो, द्वेषवृद्धिस्तथेतरैः । एतत्स्वरूपमेतेषा-मिन्द्रियाणां नृपोत्तम ! ॥५४॥ दुर्जयानि यथा तानि, कथ्यमानं तथाधुना । दत्तावधानस्तत्सर्व-मनुश्रुत्यावधारय ॥५५॥ अनेकभटसङ्कीर्णे, समरे योधयन्ति ये । मत्तमातङ्गसङ्घात-मेतैस्तेऽपि विनिर्जिताः ॥५६॥ अङ्गुल्यग्रे विधायेदं, भुवनं नाटयन्ति ये । शक्त्यादयोऽपि शक्तिष्ठा-स्तेऽप्यमीभिर्वशीकृताः ॥५७॥ हिरण्यगर्भवैकुण्ठ-महेश्वरपुरस्सरा: । एतैर्वशीकृता: सन्त-स्तेऽपि किङ्करतां गताः ।।५८॥ अधीत्य सर्वशास्त्राणि, परमार्थविदो जना: । एभिर्विधुरिता: सन्तश्चेष्टन्ते बालिशा इव ॥५९।। एतानि हि स्ववीर्येण, ससुरासुरमानुषम् । वराकमिव मन्यन्ते, सकलं भुवनत्रयम् ॥६०॥ दुर्जयानि ततोऽमूनि, हृषीकाणि नराधिप ! । एवं सामान्यत: प्रोक्तं, हृषीकगुणवर्णनम् ॥११॥ तिष्ठन्तु तावच्छेषाणि, हृषीकाणि नराधिप !। स्पर्शनेन्द्रियमेवैकं, समर्थं बत वर्तते ॥६२॥ यतो न शक्यते लोकै-जेतुमेकैकमप्यदः । यतो विज्ञातवृत्तान्ता, इदमूचुर्विचक्षणा: ॥६३॥
"सक्तः शब्दे हरिणः, स्पर्शे नागो रसे च वारिचरः । नेत्रे कृपणपतङ्गो, भ्रमरो गन्धे विनष्टश्च ॥६४॥ पञ्चसु सक्ताः पञ्चविनष्टा, यत्राऽगृहीतपरमार्थाः ।
एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥६५॥ भगवनिन्द्रियजेतारो, नरा: किं सन्ति कुत्रचित् ? । आहोश्विनैव विद्यन्ते, भुवनेऽपि तथाविधाः ॥६६॥ राजन्न हि न विद्यन्ते, केवलं विरला जना: । ये तेषां विनिहन्तार-स्तत्राकर्णय कारणम्॥६७॥ जघन्यमध्यमोत्कृष्टा-स्तथोत्कृष्टतमा गुणैः । चतुर्विधा भवन्तीह, पुरुषा भवनोदरे ॥६८॥ तत्रोत्कृष्टतमास्ताव-बैरिहेन्द्रियपञ्चकम् । अनादिभवसम्बन्धा-त्पालितं लालितं प्रियम् ॥६९॥ जैनेन्द्रागमसम्पर्का-द्विज्ञाय बहुदूषणम् । तत: सन्तोषमादाय, महासत्त्वैर्निराकृतम् ॥७०॥ गृहस्था अपि ते सन्तो, ज्ञाततत्त्वा जिनागमे। हृषीकपञ्चलौल्येन, नाचरन्ति कुचेष्टितम् ॥७१॥ यदा पुनर्विशेषेण, तिष्ठत्येष जिनागमः । हृषीकपञ्चसम्बन्धं, त्रोटयन्ति सदाखिलम् ॥७२॥ यतो दीक्षां समादाय, निर्मलीमसमानसा: । सन्तोषभावतो धन्या, जायन्तेऽत्यन्तनिस्पृहा: ॥७३।। ततस्ते भवकान्तार-निर्विण्णा वीतकल्मषा: । इन्द्रियप्रतिकूलानि, सेवन्ते वीरमानसा: ।।७४|| भूमीशयनलोचादि-कायक्लेशविधानतः । तत: सुखस्पृहां हित्वा, जायन्तेऽतिनिराकुला: ॥७५।। तत: सकलकर्मांश-क्लेशविच्छेदभाजनम् । भूत्वा ते निर्वृति यान्ति, निर्जित्येन्द्रियपञ्चकम् ॥७६॥ तेनोत्कृष्टतमा राज-निर्दिष्टास्ते विचक्षणैः । ये चैवमनुतिष्ठन्ति, विरलास्ते जगत्त्रये ॥७७॥ साम्प्रतं च तथोत्कृष्ट-नराणां शुद्धचेतसां । स्वरूपं श्रूयतां राजन् !, कथ्यमानं मयाधुना ॥७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org