________________
११८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
एष एव हि जीवानां, सुखदाता जिनागमः । हस्तालम्बसमो ह्येष, भवकूपे निमजताम् ॥२७॥ एष एव जगन्नाथो, वत्सल: परमार्थतः । एष एव जगत्त्राण-मेष एव सुबान्धवः ।।२८।। एष एव विपद्गर्ते, पततामवलम्बनम् । एष एव भवाटव्या-मटतां मार्गदर्शकः ॥२९॥ एष एव महावैद्य: कर्मव्याधेर्निबर्हणः । एष एव परानन्द-कारणं परमौषधम् ॥३०॥ एष एव जगद्दीप: सर्ववस्तुप्रकाशकः । प्रमादराक्षसात्तूर्ण-मेष एव विमोचकः ॥३१॥ एषोऽविरतिजम्बाल-कल्मषक्षालनक्षमः । एष एव हि योगानां, दुष्टानां विनिवर्तकः ॥३२॥ 'शब्दादिचरटवातै-र्जीवानामिह निष्कृपम्। सततं पीड्यमानाना-मेष एव हि रक्षकः॥३३॥ एष एव हि निर्व्याजं, नरकद्वाररोधकः । एष एव हि तैरश्च-दुःखवह्रिघनाघनः ॥३४॥ एष एव कुमानुष्य-दुःखविच्छेदकारणम् । एष एव कुदेवत्व-मन:सन्तापनाशकः ॥३५॥ अज्ञानतरुविच्छेदे, एष एव कुठारकः । एष एव महानिद्रा-द्रावण: प्रतिबोधकः ॥३६॥ एष स्वाभाविकानन्द-कारणं बत गीयते । अनन्तभवसंवर्धि-मिथ्याबुद्धिविधूनकः ॥३७।। एष एव गुरुक्रोध-वह्निविध्यापने जलम् । एष एव महामान-पर्वतोद्दलने पवि: ॥३८॥ एष मायामहाव्याघ्री-पातने सरभायते । एष एव महालोभ-नीरधे: शोषणेऽनल: ॥३९।। एष हास्यविकारस्य, गाढं प्रशमनक्षमः । एष मोहोदयोत्पन्ना- रतिं निर्नाशयत्यलम् ॥४०॥ एष एवारतिग्रस्ते, जनेऽस्मिन्नमृतायते । एष एव भयोद्धान्त-सत्त्वसंरक्षणक्षम: ।।४१॥ एष शोकभराक्रान्तम्, सन्धीरयति देहिनम् । एष एव जुगुप्सादि-विकारं शमयत्यलम् ॥४२॥ एष कामपिशाचस्य, दृढमुच्चाटने पटुः । एष एव च मार्तण्डो, मिथ्यात्वध्वान्तसूदन: ॥४३॥ एष एव च दानादि-शक्तिसन्दोहकारणम् । एष एव महावीर्य-योगहेतुरुदाहृतः ॥४४॥ यस्माद्भागवतं वाक्यं, श्रुतं ज्ञातं परिस्फुटम् । अक्षाणां निग्रहं धत्ते, धत्ते जीवं शिवालये ॥४५।। राजाह किमु सर्वेऽपि, न कुर्वन्तीह सर्वदा । धर्मं सर्वज्ञनिर्दिष्टं, सर्वकल्याणकारणम् ॥४६॥ अथ सूरिराहसुखाभिलाष: सुकरो, दु:ष्करोऽसौ नृपोत्तम ! । यतो जितेन्द्रियग्राम-स्तं साधयति मानवः ॥४७॥ अनादिभवकान्तारे, प्राप्तानि परमं बलम् । दुर्बुद्धिभिर्न शक्यन्ते, जेतुं तानीन्द्रियाणि वै ॥४८॥ तेनैते जन्तवो मूढाः, सुखमिच्छन्ति केवलम् । धर्मं पुन: सुदूरेण, त्यजन्ति सुखकारणम् ॥४९॥ इन्द्रियाणां जयं भूप!, कर्तुं नो पारयन्त्यमी । धर्मत: प्रपलायन्ते, ततो जीवा: सुखैषिणः ॥५०॥ नरसुन्दरभूपेना-भाणि भगवनिवेद्यताम् । कानि तानीन्द्रियाणीह, किंस्वरूपाणि वा मुने ? !॥५१॥ कथं वा दुर्जयानीति, श्रोतुमिच्छामि तत्त्वत: । यत्कुतूहलमत्रार्थे, गुरुकं मम वर्तते ॥५२॥
१ शब्दवेधिशरवाते मु.॥, २ किमिति BCJ || ३J मु. । प्राप्ता निजप BC |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org