________________
अधिकार २ / श्लोक ५०-५९ / घृतपूजायां गोधनकथा ७
११७
घृतपूजायां गोधनकथा
फलपूजाफलं प्रोक्तं, दृष्टान्तेन सविस्तरम् । साम्प्रतं घृतपूजाया:, फलं तेनैव कथ्यते ॥१॥ अस्तीह भारते क्षेत्रे, काशीदेश: सुविश्रुतः। तत्राभूद्गोधनो नाम, गोकुलिको महर्द्धिकः ॥२॥ प्रभूतानां गवां स्वामी, प्रकृत्यैवातिभद्रक: । दानश्रद्धालुरत्यन्तं, धर्मलिप्सुः प्रशान्तधी: ॥३॥ अन्यदा ददृशे तेन, भ्राम्यता मेदिनीतलम् । एकत्रोद्वसितप्राये, पुरे जीर्णजिनालय: ॥४॥ तस्मिंश्च सुन्दरं बिम्बं, जैनेन्द्रं सुतरां महत् । तद् दृष्ट्वा रञ्जितश्चित्ते, ततश्चैवं व्यचिन्तयत् ॥५॥ अहो! देवाधिदेवोऽयं, सुरूप: प्रीतिदायकः । तदहं स्नपयाम्येनं, सद्गन्धोद्धरसर्पिषा ॥६॥ विचिन्त्यैवं तत: सर्पि-रानीयातिमनोहरम् । स्नापित: श्रीजिनाधीशः पूजितश्चाक्षतादिभिः ॥७॥ एवं च प्रत्यहं तस्य, कुर्वतो भक्तिनिर्भरम् । कालो भूयानतिक्रान्त:, शुभं भावमुपेयुषः ॥८॥ कालक्रमात्ततो मृत्वा, जातो नन्दिपुरे पुरे। जयवर्धनभूपस्य, पुत्रो विजयवर्धन: ॥९॥ कलाभि: सह सर्वाभि-वर्धमानो दिने दिने । क्रमेण यौवनं प्राप्त:, कन्दर्पकुलकेतनम् ॥१०॥ परिणिन्ये च रूपादि-गुणाढ्या राजकन्यका: । स्थापितश्च निजे राज्ये, पित्रा धर्मचिकीर्षुणा ॥११॥ ततश्च स्वप्रतापेन, समाक्रान्तमहीतल: । कुर्वन् शेषमहीनाथा-नुत्खातप्रतिरोपितान् ॥१२॥ हस्तिभिर्वाजिभिर्भूत्यैः, पुरैरन्त:पुरैस्तथा । कोष्ठागारैश्च कोशैश्च, वर्धमानो यथोत्तरम् ॥१३।।
स्वकान्त्या कामिनी ढं, सन्नीत्या निखिला: प्रजाः ।
रञ्जयन् स्नेहतो बन्धून्, सज्जनान् गुणसम्पदा ॥१४॥ शौर्येण सर्वशत्रूणां, ददन्नित्यं महाभयम् । सौजन्यादिगुणग्रामैः, सत्कीर्तिं च वर्धयन् ॥१५॥ दुष्टानां निग्रहं कुर्वन, शिष्टानां परिपालनम् । औचित्येन करं गृह्ण-नौचित्येन च दण्डयन् ।।१६।। नातिशीतो न चाप्युष्णो, न मृदुर्न च कर्कश: । न क्रोधी नातिशान्तश्च, नातिदाता न सञ्चकः ॥१७॥ चिन्तानन्तरनि:शेष-पूर्यमाणमनोरथ: । स्वराज्यं पालयामास राजा विजयवर्धनः ॥१८॥ विस्मारिता सुपुत्रेण, पितु: सम्बन्धिनो गुणा: । फलेन सहकारस्य, पुष्पसम्बन्धिनो यथा ॥१९॥ त्रिवर्गं सेवमानस्य, परस्परमबाधया । व्रजन्ति वासरास्तस्य, सुखवृन्दमया इव ।।२०।। अन्यदा च शुभे लग्ने, राज्ञी मदनकन्दली। दृष्टं शुभग्रहै: सर्वैः, पुत्ररत्नमजीजनत् ॥२१॥ मासान्ते विहितं नाम, महोत्सवपुरस्सरम् । यथार्थं जातसन्तोषैः, पुत्रो मदनसुन्दर: ।।२२।। अन्यदा च समायाता, बहुशिष्यसमन्विताः । तप:संयमसंयुक्ताः, सूरयोऽमरसुन्दरा: ॥२३॥ स्थिताश्च नन्दनोद्याने, भूभागे जन्तुवर्जिते । अवग्रहमनुज्ञाप्य, ज्ञानत्रयसमन्विताः ॥२४॥ वन्दनार्थं समायातो, राजाऽन्येऽपि च नागरा: । प्रारब्धा देशना चैवं, सूरिभिः समशालिभिः ॥२५॥ सुखैषिणो जना: सर्वे, सुखं धर्मनिबन्धनम् । धर्म: सदागमादेव, ज्ञायते क्रियते तथा ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org