________________
११६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
मासान्ते विहितं नाम, पित्रा स्वप्नानुसारत: । फलदेव इति ख्यातं, महामहपुरस्सरम् ॥३७९।। आकर्येदं स्मृता जातिः, संवेगश्च समागतः । सञ्जातो भवनिर्वेदः, शुद्धे धर्मे गतं मनः ॥३८०॥ श्रुत्वेदं फलदेवस्य, फलपूजाफलं महत् । सर्वज्ञफलपूजायां, भूरिलोको ददौ मनः ।।३८१।। अथोक्तं फलदेवेन, भगवन् भवतारक! । निर्विण्णोऽहं भवावासाद, दूरं दुःखनिबन्धनात् ।।३८२।। अतोऽहं स्वकुटुम्बस्य, कृत्वासौस्थ्यं यथोचितम्। संसारोत्तारिणीं दीक्षां, ग्रहीष्ये युष्मदन्तिके॥३८३॥ सूरिभिर्जल्पितं भद्र!, मात्र कार्षीविलम्बनम् । स्वामिन्नेवं करिष्येऽह-मेवमुक्त्वा समुत्थितः ॥३८४।। जगाम निजकस्थाने, रञ्जितो निजको जनः । ततश्च सर्वबन्धूनां, स्वाभिप्रायो निवेदितः ॥३८५।।
धर्मस्थाने निजं द्रव्यं, प्रभूतं विनियोजितम् ।
पुत्रश्च रत्नसुन्दर्या:, फलचन्द्राभिधानक: ॥३८६॥ सम्मतेन स्वबन्धूनां, स्थापितो निजके पदे । कृतं सौस्थ्यं कुटुम्बस्य, यथौचित्यविधानतः ॥३८७॥ सम्भाष्य क्षामयित्वा च, पौरलोकं यथाक्रमम्। इत्याद्यखिलं कृत्वा च, कृत्यं कृत्यविदां वरः॥३८८।। नभसैव समायात:, सूरीणां संनिधौ तत: । सूत्रोक्तेन विधानेन, दीक्षित: सूरिणाप्यसौ ॥३८९॥ अनुशिष्टश्च गम्भीर-वाक्यैः संवेगसुन्दरैः । यथा भो भो महासत्त्व !, यावजीवमपि त्वया ॥३९०॥ अष्टावीर्यासमित्याद्या, मातर इव मातरः । क्षणमपि न मोक्तव्या;, स्वस्य कल्याणमिच्छता ॥३९१।। द्रव्याद्यभिग्रहाश्चित्रा, ग्राह्याश्चारित्रपुष्टये । प्राशुकमेपूणीयं च, ग्राह्यं भक्तादि सर्वदा ।।३९२।। उपसर्गाश्च सोढव्या, दिव्याद्या भद्र ! षोडश । विषह्याश्च सदाकालं, द्वाविंशतिपरीषहाः ॥३९३।। तपसि द्वादशांशेऽपि, यतितव्यं यथाबलम् । उद्यतव्यं च सर्वेषु, वैयावृत्त्यादिकर्मसु ।।३९४|| किञ्चेमांमानुषत्वादि-सामग्री प्राप्य दुर्लभाम्। तथा यत्नस्त्वया कार्यो, दुःखोच्छेदोभवेद्यथा ॥३९५।। इत्याद्यनेकधाचार्य-श्चक्रे तस्यानुशासनम् । इच्छाम्यहमनुशास्ति-मित्येवं सोऽप्यभाषत ।।३९६।। ततस्तेनाप्रमत्तेन, स्वगुरूणां पदान्तिके । ग्रहणासेवनाशिक्षा, शिक्षिता शीघ्रमेव हि ॥३९७।। चिरं तेपे तपश्चित्रं, पालित: संयमस्तथा। आलोचितप्रतिक्रान्त:, संलिख्य च निजां तनुम् ॥३९८।। पर्यन्तेऽनशनं कृत्वा, मृत्वा बाढं समाधिना । अच्युते द्वादशे कल्पे, जातो देवो महर्द्धिकः ॥३९९।। इत्थं प्रवर्धमानोरु-सत्कल्याणपरम्पराम् । प्राप्नुवन् क्षीणकर्मांश:, सिद्धोऽसौ पञ्चमे भवे ॥४००।। तदहो फलदेवस्य, फलपूजाफलं महत् । श्रुत्वा जिनेन्द्रपूजायां, भो भव्या: ! कुरुतादरम् ।।४०१॥
इति फलपूजाकथानकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org