________________
अधिकार २ / श्लोक ५०-५९ / फलपूजायां फलसारकथा ६
११५
सरागसंयमाद्देवा, देशसंयमतोऽपि वा। अकामनिर्जरा देवा, अज्ञानतपसोऽपि वा ॥३५२॥ ईर्ष्याविषादसन्ताप-मानमायातिलोभता । देवेष्वपि वसन्त्येते, दोषास्तेषां कुत: सुखम् ।।३५३॥ एवमाह जिनाधीशो, देवदेवो दयानिधिः । क्लिष्टकर्मा भवातीत:, परं पदमुपागतः ॥३५४॥ चतुर्विधेऽपि संसारे, सौख्यं स्वल्पं शरीरिणाम् । सकृत्सौख्यानि जायन्ते, दुःखानि च पदे पदे॥३५३॥ सिद्धौ च सर्वजीवानां, संपूर्णा सुखसङ्कथा । नि:शेषकर्मविच्छेदा-त्स च चारित्रयोगतः ॥३५५॥ सर्वोपाधिसंशुद्धं चारित्रं प्राप्य सुन्दरम् । क्रमेण केवलज्ञानं, लोकालोकप्रकाशकम् ॥३५६|| शैलेशी च समासाद्य, समस्तोपरतक्रियम् । भवोपग्रहकारि च, हत्वा कर्मचतुष्टयम् ।।३५७|| सर्वद्वन्द्वविनिर्मुक्ता, अष्टकर्मविवर्जिताः । भवाम्भोधिं समुल्लङ्घ्य, गच्छन्ति परमं पदम् ॥३५८|| इदमाख्याति सर्वज्ञः, सनरामरपर्षदि । सुरासुरनराधीश-मौलिमालार्चितक्रमः ॥३५९॥ भवाटव्यामटाट्यन्ते, बहुदुःखप्रपीडिता: । अधर्मसम्बला जीवाः, यत्र तत्रैव दुःखिताः ॥३६०।। तद्भो भव्या भवाटव्यां, परिभ्रमणभीरव: । यदि यूयं तदा लात, धर्मसम्बलमुत्तमम् ।।३६१।। वन्दित्वा च सभा सर्वा, विधाय करकुड्मलम् । अवादीच्च गणाधीशं, सत्यमेव त्वयोदितम् ॥३६२॥ तथैवैतन्न सन्देहो, तथैवैतन्न संशय: । अहो निदर्शितो मार्ग:, सिद्धिपुर्यास्त्वया प्रभो! ।।३६३॥ श्रमणो ब्राह्मणो वापि, पाखण्डी वा गृहाश्रमी। ईट्टा धर्ममाख्यातुं, न शक्तः कोऽपि भूतले ॥३६४।। यथायोगं परिज्ञाय, स्वत एव च योग्यताम् । परलोकहितं पथ्यं, ददध्वं धर्मसम्बलम् ॥३६५।। व्रतिन: केऽपि सञ्जाता:, श्रावका जज्ञिरे परे । प्रत्याख्यानबहिर्भूता: केचिद्विरतदृष्टयः ॥३६६॥ अत्रान्तरे फलदेवेन, सूरय: प्रनिता स्वयम्। अन्यजन्मनि कृतं पुण्यं, मया किं कथ्यतांप्रभो!॥३६७॥ मित्रपुत्रकलत्राणि, राजान: सेवका: श्रियः । वर्तन्तेऽनुकूला: केन, कर्मणेदं निवेद्यताम् ॥३६८॥ सूरिः प्राह बभूवत्वं, पुरे कुम्भपुराभिधे। मालिक: पुष्पकुम्भाख्यो, भद्रको मलयप्रभुः ॥३६९॥ बन्धूनां सर्वपुष्पाणि, फलानि स ददौ सदा । एवं व्यवस्थया कालो, याति तेषां परस्परम् ।।३७०॥ अन्यदाष्टाह्निकापूजा, प्रारब्धा जिनमन्दिरे । पुष्पकुम्भ: समादाय, फलान्यत्र समागत: ॥३७१।। गृहीतानि च सर्वाणि, दत्तमुचितवेतनम् । ताम्बूलादिप्रदानेन, सम्भूष्य स विसर्जितः ॥३७२॥ अहो नीतिरहो धर्मो, ह्यहो एकार्थचित्तता। अहो दया अहो दान-महो चित्तविशालता ॥३७३।। अन्यत्रापि च दृश्यते, यात्रा नैवंविधो विधि: । एवं चिन्तयतस्तस्य, जातं दर्शनकारणम् ।।३७४|| अष्टमेऽह्रि समायाते, भणितास्तेन गोष्ठिका: । वेतनेन न मे कार्य, पुण्यमेवात्र वेतनम् ।।३७५॥ प्रतिपन्नमिदं तेन, समानीय कृतो बलि: । फलान्यनेकभेदानि, सान्द्राण्यान्याान्तरात्मना ॥३७६।। कृतार्थमद्य मे जन्म, जीवितं यौवनं तथा । फलान्यपि कृतार्थानि, यैरेवं विहितो बलि: ।।३७७।। बद्धं परभवायुष्कं, भोगसारं भवान्तरे । ततो मृत्वात्र सञ्जात:, फलसारस्य नन्दनः ॥३७८॥ १J। च-मु. । BPC नास्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org