________________
११४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरलकरण्डके
कालेन गच्छता तस्य, जाता: पुत्रा मनोरमाः । सर्वलक्षणसम्पूर्णाः, कलाकौशलशालिन: ॥३२४॥ अन्यदा फलदेवस्तं, हारं सौभाग्यसुन्दरम् । परिधाय निजे कण्ठे, एकाक्येव सकौतुकः ॥३२५॥ निष्क्रान्तश्च तत: स्थानां-द्भूमण्डलदिदृक्षया । बभ्राम व्योममार्गेण, ग्रामे ग्रामे पुरे पुरे ॥३२६।। हारानुभावजोदग्र-सौभाग्यगुणयोगत: । सर्वत्र सर्वलोकस्य, प्रीतिस्थानमभूदसौ ॥३२७।। यत्र यत्र पुरे ग्रामे, यात्यसौ तत्र तत्र हि । जायते तन्मना लोकः, स्त्रीलोकस्तु विशेषतः ।।३२८|| भ्राम्यनेवं महीपीठे, वीक्षमाणो जिनालयान् । पूजयन् वन्दमानश्च, जिनबिम्बानि भावत: ॥३२९॥ अन्यदा च जगामैष, पुरं भोगपुराभिधम् । तस्मिन्नालोकयामास, सूरि सूरप्रभाभिधम् ॥३३०॥ कानने सुन्दरामोदे, बहुशिष्यसमन्वितम् । आचक्षाणं जिनप्रोक्तं, धर्म संविग्नपर्षदि ॥३३१॥ ततोऽतिभक्तिसंयुक्तः, समायातस्तदन्तिकम् । वन्दित्वा विधिवत्सूरि, निषण्ण: शुद्धभूतले ॥३३२॥ ततस्तं सूरिभिः किञ्चि-त्सम्भाष्य च यथोचितम् । भूयोऽपि [च] समारब्धा, देशना भवनाशिनी॥ यथा जीवा: प्रबध्यन्ते, मुच्यन्ते कर्मभिस्तथा। सङ्क्तिश्यन्ते यथा चैते, नरकं यान्ति यथा तथा॥३३४॥ रागद्वेषप्रबद्धानां, विपाकोऽतीव दारुण: । कष्टेन वेद्यते जीवै-१र्गतौ दुष्टकर्मणाम् ॥३३५।। गम्यन्ते कर्मणा येन, नरकास्तत्र वेदना: । यादृश्यो यद्विपाकेन, वेद्यन्ते पापकर्मभिः ॥३३६॥ छेदनभेदनकुम्भी-पाचनबहुशीतवातजनितानि । शाल्मलीवृक्षारोपण-वैतरिणीतारणादीनि ।।३३७|| तप्तत्रपुपानदन्दह्यमानसर्वाङ्गविह्वला: सन्त: । असिनत्रवनच्छायां, गतास्तैरेव तत्र पाटिता ॥३३८॥ उत्कृत्योत्कृत्य खण्डानि, मांसास्यास्ये तदीयके। प्रचिक्षिपुः प्रजल्पन्तो, मांसमासीत्तव प्रियम्॥३३९॥ अम्बादिजनितास्तीव्रा:, परस्परसमुद्भवाः । क्षेत्रानुभाविताश्चान्या, वेद्यन्ते तीव्रवेदना: ॥३४०॥ उक्तं च-अच्छिनिमीलियमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं ।
नरए नेरइयाणं, अहोनिसं पञ्चमाणाणं ॥३४१॥ इदमाख्याति सर्वज्ञः, सर्वदर्शी जिनोत्तम: । केवलज्ञानसदृष्टया, लोकालोकं विलोकयन् ॥३४२।। असत्यवादिनो जीवा:, कृत्वोत्कोचनबन्धने । कूटमानेन जायन्ते, तिर्यञ्चस्तीव्रवेदना: ॥३४३।। शारीरमानसानेक-दुःखवातैरुपद्रुताः । परवाह्या: परायत्ता:, प्राय: सीदन्ति दुःखिता: ॥३४४|| कशाघातैस्तथा तीव्र-रङ्कुशैर्वधबन्धनैः । शीतवातातपैर्दशै-र्मशकैश्चापि पीडिता: ॥३४५।। सर्वलोकेन वाह्यन्ते, बुभुक्षितपिपासिता: । त्राणकारी न कोऽप्येषां, प्रायश: प्रविलोक्यते ॥३४६।। इदमाख्याति सर्वज्ञः, सर्वजीवदयापरः । सर्वदोषविनिर्मुक्त:, परमात्मा निरञ्जन: ॥३४७॥ प्रकृत्यैव प्रशान्तात्मा, दानदाता दयापरः । शीलसंयमहीनोऽपि, मानुष्यं लभते नरः ॥३४८॥ अनित्यं मानुषं जन्म, जरामृत्युभयद्रुतम् । दारियोपद्रुतं प्राय:, क्षणध्वंसि रुगाकुलम् ।।३४९।। अष्टोत्तरशतव्याधि-व्रातेन विधुरीकृतम् । सर्वदाऽप्रियसंयोग-प्रियायोगविसंस्थुलम् ॥३५०॥ इदमाख्याति योगीशो, योगिगम्यो जिनोत्तम: । त्रिकालवेदी भगवान्, देवदेवो जिनेश्वरः ॥३५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org