________________
अधिकार २ / श्लोक ५०-५९ / फलपूजायां फलसारकथा ६
११३
दीनानाथादिलोकेभ्यो, ददद्दानं यथेप्सितम् । वाद्यमानैवरैस्तूर्ये-नृत्यद्भिः स्त्रीजनोत्करैः ।।२९५॥ एवमादिप्रमोदेन, निजमन्दिरमागतः । सन्मान्य च यथायोगं, पौरलोको विसर्जितः ॥२९६।। उत्तारितंच पोतेभ्यो, भाण्डंशुल्कं च पातितम्। विक्रीतं च यथामूल्यं, लब्धो लाभोयथेप्सितः॥२९७।। सन्तोषितो निजो लोको, दत्त्वा वित्तं यथोचितम् । सन्मानितो बृहल्लोकः, सद्वस्त्रादिप्रदानतः ॥२९८॥ यथालाभं निजं वित्तं, धर्मस्थाने नियोजितम् । यदन्यदपि कर्तव्यं, तत्कृतं सर्वमञ्जसा ॥२९९॥ भुञ्जानश्च सपत्नीको, कामभोगाननुत्तरान् । विदधद्धर्मकार्याणि, कालं नयति नीतिमान् ॥३००॥ तथास्य सम्पदं दृष्ट्वा, रञ्जिता: सज्जना जना: । दूमिता दुर्जना लोका: आननन्दुः स्वबान्धवाः॥३०१।। अन्यदा शुभचन्द्रोऽसौ, फलदेवं प्रभाषते । भो भ्रातर्गन्तुमिच्छामि, साम्प्रतं स्वपुरं प्रति ॥३०२॥ किञ्चात्र साधव: श्रेष्ठिन्न सन्त्यागमवेदिनः । न च साधर्मिका लोका, नापि तादृग्जिनालया: ॥३०३।। तद्भो ! मदुपरोधेन, तत्रायातु भवानपि । वीक्षतां जिनवेश्मानि, वन्दतां मुनिपुङ्गवान् ॥३०४।। शृणोतु शुद्धसिद्धान्तं, सिद्धिसम्बन्धसाधकम् । वीक्षतां धर्मसन्निष्ठं, जनं साधर्मिकं तथा ॥३०५॥ एवमस्त्विति सञ्जल्प्य, फलदेवेन सत्वरम् । भूरिद्रविणसम्पूर्णो, बोहित्थ: प्रगुणीकृत: ॥३०॥ ततस्तत्र सपत्नीकः, शुभचन्द्रसमन्वितः । समारुह्य गत: शीघ्रं, पुरे वीतभयाभिधे ।।३०७|| ततश्च शुभचन्द्रस्य, बन्धुवर्गोऽखिलोऽपि हि । तस्य सन्मुखमायातो, बहु: पौरजनस्तथा ॥३०८।। महर्द्धिपूर्वकं प्रीत्या, पुरमध्ये प्रवेशित: । नीतश्च निजे गेहे, कृतं कृत्यं यथोचितम् ॥३०९॥ ततश्च कृतशृङ्गारः, सह साधर्मिकैजनैः । पूजोपकरणं लात्वा, जगाम जिनमन्दिरे ॥३१०॥ दृष्टानि जिनबिम्बानि, पूजितानि विधानतः । वन्दितानि स्तुतिस्तोत्रै-स्तत: स्वावासमागतः ॥३११।। पित्रा च शुभचन्द्रस्य, भोजितश्च सगौरवम् । सन्मानितश्च वस्त्राद्यैः, सानन्दं सपरिच्छदः ।।३१२॥ एवं च शुभचन्द्रस्य, समग्रैरपि बन्धुभि: । सन्मानितो यथाशक्त्या, फलदेव: कृतादरः ॥३१३॥ ततश्च शुभचन्द्रेण, बन्धूनामग्रतो मुदा । मूलादारभ्य सर्वोऽपि, वृत्तान्त: कथितो निजः ॥३१४॥ ततस्तैर्भूपते: सर्वं, शिष्टं तेनापि सत्वरम् । स आहूतो वणिक्पुत्रो, दूरमारुष्टचेतसा ॥३१५।। शुभचन्द्रो जले तेन, क्षिप्तो द्रव्याभिलाषिणा । शुभचन्द्राय तद्रव्यं, तं निगृह्यप्रदापितम् ।।३१६।। ततश्च फलदेवेन, सानन्दं तत्र तिष्ठता । वन्दितानि समग्राणि, चैत्यानि विधिपूर्वकम् ॥३१७॥ कारिताश्च महायात्रा:, सर्वेषु जिनवेश्मसु । सद्वस्त्रपात्रभक्ताद्यैः, साधव: प्रतिलाभिता: ॥३१८॥ पूजितश्च सुवस्त्राद्यैः, सर्व: साधर्मिको जन: । दीनानाथादिलोकेभ्यो, दत्तं दानं यथेच्छया ॥३१९॥ एवं च कुर्वता तेन, कृता तीर्थप्रभावना । तत्रत्यसर्वलोकस्य, रञ्जितं नितरां मनः ॥३२०॥ एवं तिष्ठन्नसौ तत्र, स्वकीयगुणसम्पदा । सर्वस्यापि हि लोकस्य, प्रमोदमकरोदिति ॥३२१।। स्थित्वा च तत्र सानन्दः, कतिपयान्यहान्यसौ । शुभचन्द्रं समापृच्छय, स्वकीयं पुरमागत: ।।३२२।। तत्र सम्पादयन् प्रीति, लोकानां निजकैर्गुणैः । भुङ्क्ते भोगान् सपत्नीकः, पूर्णाखिलमनोरथः ॥३२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org