________________
११२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
दृष्टः श्रीमज्जिनाधीश:, पूजितो वन्दितस्तथा । कारिता च वरा यात्रा, प्रबन्धेन दिनाष्टकम् ॥२६६।। तृतीये च दिने तत्र, वनमाला समागता । पृष्टा च फलदेवेन, किं चिरादत्र दृश्यसे ? ॥२६७|| तयाभाणि गताहं भो, द्वीपे नन्दीश्वराभिधे। तत्र सन्ति समुत्तुङ्गा, द्वापञ्चाशज्जिनालया:॥२६८॥ तत्राशेषसुराधीशै-रष्टाह्निकामहोत्सव: । चक्रे जैनेन्द्रबिम्बानां, गताहं तद्दिदृक्षया ।।२६९॥ युष्मानिह समायातान्, विलोक्येह समागता । फलदेवस्तत: प्राह, कौतुकाकुलमानसः ।।२७०॥ यदि भो ! गम्यते तत्र, दृश्यन्ते ते जिनालया: । वन्द्यन्ते जिनबिम्बानि, सुन्दरं जायते तदा ॥२७१॥ वनमाला तत: प्राह, गम्यतां भो नयाम्यहम् । पूरयामि तवाभीष्टं, धर्मबन्धो ! यथा तथा ॥२७२।। स प्राह स्वयमेवाहं, गगने गन्तुमीश्वरः । अयं तु त्वयका नेय:, शुभचन्द्रः सृहन्मम ॥२७३॥ अथोक्तं रत्नसुन्दर्या, नयस्व प्रिय ! मामपि । कथं नयामि तत्रेमां, यावच्चिन्तापरोऽभवत् ॥२७४॥ तावत्पश्यति तं सर्प-जीवदेवं पुर: स्थितम् । देव: प्राह भवानद्य, परिजानाति मां न वा ? ॥२७५॥ तेनोक्तं परिजानामि, सामान्येनामरो भवान् । नो विशेषेण स प्राह, तर्हि ते कथयाम्यहम् ॥२७६।। स एव सर्पजीवोऽहं, यस्त्वया प्रतिबोधित: । मृत्वा जात: सुर: कल्पे, ब्रह्मलोकाभिधानके। अवधिज्ञानतो ज्ञात्वा, समायातस्तवान्तिके । तद् ब्रूहि यत्तवाभीष्टं, येन सम्पादयाम्यहम् ।।२७८॥ फलदेवस्तत: प्राह, द्वीपे नन्दीश्वराभिधे । चैत्यानां वन्दनार्थं तु, गन्तुमिच्छामि साम्प्रतम् ॥२७९॥ तेनापि सुन्दरं चैत-देवमुक्त्वा विकुर्वितम् । विमानं सुन्दराकारं, विस्तीर्णं सुमनोहरम् ॥२८०॥ फलदेवस्ततस्तस्मि-त्रारोप्य सपरिच्छदः । नीतो नन्दीश्वरे द्वीपे, दर्शिताश्च जिनालया: ॥२८१।। ततश्च तेन चैत्यानि, वन्दितान्यखिलान्यपि । जातश्चित्ते महानन्दः, कृतार्थं स्वं ह्यमन्यत ॥२८२॥ आनीतश्च तत: शीघ्रं, तस्मिन्नेव जिनालये । तत्रापि च कृता पूजा, सर्वैरपि विशेषत: ।।२८३॥ भूयोऽप्यवाचि देवेन, फलदेव: कृतादरम् । साम्प्रतं किमु ते कार्य, ब्रूहि येन प्रसाध्यते ? ॥२८४|| स प्राह नास्ति मे कार्य, कार्यं किञ्चिदत:परम् । पूरितं मे मनोऽभीष्टं, निजस्थानमलङ्कुरु ॥२८५।। गतो देवस्ततस्तेन, वनमाला प्रजल्पिता । त्वया भद्रे ! तथा कार्य, यथैतज्जिनमन्दिरम् ॥२८६।। विशेषत: सदाकालं, सपूजं जायतेतराम् । तयापि तद्वचस्तोषा-तथेति प्रत्यपद्यत ॥२८७॥ एवं च तत्र चैत्यानि, द्वीपे नन्दीश्वरे तथा । वन्दित्वा पूजयित्वा च, प्रमोदातिशयं दधन् ।।२८८।। आगत्य च निजान् पोता-नारूढः सपरिच्छदः । ततस्ते प्रेरिता: पोता:, प्रवृत्ता गन्तुमासा ॥२८९॥ लयित्वा नदीनाथं, स्तोककैरेव वासरैः । सम्प्राप्तश्च निजे स्थाने, सोपाराभिधपत्तने ॥२९०|| नङ्गरिताश्च ते शीघ्रं, तीरमानीय धीवरैः । वर्धापितो जनै राजा, पोतागमनिवेदनात् ॥२९१॥ तत्रैवासी समायातो, भूरिपौरजनैः सह। [परिवारयुतो वेगा-दतीव प्रमदाकुल:] ॥२९२॥ ततश्च फलदेवोऽपि, पोतादुत्तीर्य सत्वरम् । प्रतिपत्तिं यथायोगं, राजादीनां चकार स: ॥२९॥ तत: समं नरेन्द्रेण, पौरैर्बन्धुजनैस्तथा । गीयमानगुणग्रामो, बन्दिवृन्दैर्मुहुर्मुहुः ।।२९४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org