________________
अधिकार २ / श्लोक ५०-५९ / फलपूजायां फलसारकथा ६
१११
मा कार्षीनिजगोत्रस्य, क्षयं भो भो महोरग! । तवैवेदं गृहं भोगिं-स्तवैते पुत्रपौत्रका: ।।२३७॥ तवैवायं निजो लोकः, किमेवं खिद्यते भवान्। आकर्येदंभुजङ्गोऽपि, जातो जातिस्मर: क्षणात्॥२३८॥ तस्यैव पादमूलान्त:, संलीन: संवृतेक्षण: । ततस्तस्मै पयो दत्तं, न चासौ पातुमिच्छति ॥२३९।। शुभचन्द्रस्तत: प्राह, सर्पोऽयं भोक्ष्यते न हि । मन्ये जातिस्मरो जातो, गृहीतानशनस्तथा ॥२४०॥ तद्भो: पञ्चनमस्कारो, दीयतेऽस्मै महाहये। तथैव दातुमारब्धो, नमस्कार स्फुटाक्षरम् ॥२४१।। सर्वज्ञभाषितों धर्मः, प्रोक्तस्तस्य सविस्तरः । तत: शृण्वन्नमस्कार, जीवित्वा दिनपञ्चकम् ।।२४२॥ मृत्वा समाधिना जातो, दिवि देवो महर्धिकः । [नमस्कारप्रभावेण, धर्मध्यानपरायणः ॥२४३।। तत्र सुचित्तपुत्रेण, तकं स्वर्णनिधानकम् । उत्खन्य पुञ्जितं सर्वं, जनाध्यक्षं गृहाङ्गणे ॥२४४॥ फलदेवस्तत: प्रोक्त-स्तेनैवं हृष्टचेतसा । गृह्यतां गृह्यतां स्वामि-स्तवैवैतत्सुवर्णकम् ।।२४५॥ तथा भो भगिनी येयं, मामकी धनसुन्दरी। श्रेष्ठिन् ! परिणयस्वेमां, मत्तुष्टिं कुरु सर्वथा ॥२४६॥ फलदेवस्तत आह, स्थाने कुरु सुवर्णकम् । तवैवेदं महाभाग !, संवृणु वृणु सत्वरम् ॥२४७॥ मा कार्षीरुपरोधं नः, सर्वथा कुरु मे वच: । ततस्तत्संवृतं तेन, यथायोगं निजोचितम् ।।२४८॥ लब्धश्च फलदेवेन, साधुवादो जनेऽधिकः । श्लाघितोऽस्य गुणग्रामो, लोकै रञ्जितमानसैः ॥२४९।। श्रेष्ठिना बन्धुयुक्तेन, भण्यमानश्च सादरम् । परिणिन्ये परद्धर्यासौ, कन्यां तां धनसुन्दरीम् ।।२५०।। कतिचिद्दिनानि तत्रैव, तया सार्धं प्रमोदत: । स्थित्वा सम्प्रस्थितो भूयः, पुरं सिंहपुरं प्रति ॥२५१।। क्रमशस्तत्र सम्प्राप्तो, गृहीत्वा रत्नसुन्दरीम् । प्राभृतं च वरं लात्वा, गतोऽसौ राजमन्दिरे ॥२५२॥ दृष्टो राजा ततस्तस्मै, चार्पिता रत्नसुन्दरी । वरप्राभृतसंयुक्ता, ततस्तुष्टेन भूभुजा ॥२५३|| पृष्टश्च कुत्र भो लब्धा, मत्पुत्री रत्नसुन्दरी ? । तेनाप्यामूलत: सर्वो, वृत्तान्तोऽस्मै निवेदित: ।।२५४॥ ततश्च सादरं राज्ञा, स्नापितो भोजितस्तथा । सन्मानितश्च वस्त्राद्यैः, फलदेव: सगौरवम् ॥२५५॥ तद्रूपादिगुणग्रामै, राजा रञ्जितमानस: । तस्मा एव ददौ प्रीत्या, कन्यां तां रत्नसुन्दरीम् ॥२५६।। शुभे च तिथिनक्षत्रे, महामहपुरस्सरम् । वृत्तं चातिप्रमोदेन, पाणिग्रहणमङ्गलम् ॥२५७|| दत्तं च भूभुजा तस्मै, वरप्रासादसंयुतम् । हस्त्यश्वस्वर्णरत्नादि-भूरिदानमनेकधा ॥२५८।। एवं भार्याद्वयोपेतो, भुञ्जान: कामजं सुखम् । मासमेकं स्थितस्तत्र, श्लाघ्यमानो जनैरलम् ।।२५९।। ततो मुत्कलित: कष्टा-द्राज्ञा सन्मानपूर्वकम् । हस्त्यश्वरथपादाति-सत्सामग्रया चचाल स: ॥२६०॥ आगच्छच्च सुधासारे, नगरे दिनपञ्चकम् । स्थित्वा कृत्वा महानन्दम्, श्वशुरस्य ततोऽपि च ॥२६१।। सम्प्रस्थित: स्वसामग्या, रत्नगम्भीरमागत: । सिंहविक्रमसम्बन्धि-हस्त्याद्यं विससर्ज स: ॥२६२॥ आरोप्य निजपोतेषु, स्वर्णरत्नादिकं धनम् । तत: स्वयं समारूढो, हेलया सपरिच्छदः ॥२६३|| ततश्च प्रेरिता: पोता:, प्रवृत्ता गन्तुमुच्चकैः । प्राप्ता मलयदेशान्तं, तत्र स्थाने धृतास्ततः ॥२६४।। फलदेव: समुत्तीर्णः, सत्वरं सपरिच्छदः । गत्वा तत्र पुरा दृष्ट-काननस्थजिनालये ॥२६५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org