________________
११०
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
सोऽपि तस्य समाकर्ण्य, मुमुदे निजमानसे । एवं च धर्मसम्बन्ध-विचारं कुर्वतोस्तयोः ॥२१०।। वहन्तस्ते महापोता: समुल्लङ्घ्य पयोनिधिम् । सम्प्राप्ता रत्नगम्भीरं, पुरं पौरजनाकुलम् ।।२११॥ ततो नगरितास्तत्र, वेलाकूले जनाकुले । ततोऽवतीर्य पोतेभ्य:, फलदेवो नयान्वित:॥२१२॥ प्रधानवणिग्भि: सार्धं, गृहीत्वा प्राभृतं महत् । गतो राजकुले शीघ्रं, दृष्टो राजा ननाम तम् ।।२१।।
अर्पितं प्राभृतं पश्चा-निषण्णो दर्शितासने । पृष्टा वार्ता नरेन्द्रेण, प्रोक्ता तेनापि मूलतः ॥२१४॥ ततस्तद्दर्शनेनैव, राज्ञा रञ्जितचेतसा । सन्मानं सादरं तस्य, प्रासादा दर्शिता वरा ॥२१५॥ ततश्च पातितं शुल्कं, विक्रीतं च क्रयाणकम् । आसादितो महान् लाभो, जाता चित्तस्य निर्वृति:। गृहीतं प्रतिभाण्डं च, सर्वं च प्रगुणीकृतम् । अन्यदा फलदेवस्तां, गृहीत्वा रत्नसुन्दरीम् ॥२१७॥ कृत्वा प्रधानसामग्री, चेले सिंहपुरं प्रति । [प्रेरितो वर्यशकुनै:, परिवारसमन्वित:] ॥२१८॥ गच्छता च पुमानेकः, परं खेदमुपेयिवान् । दृष्टःप्रदेश एकस्मिन्, महादारिद्यपीडितः ॥२१९॥ पृष्टश्च फलदेवेन, गत्वा कोमलया गिरा। किमित्येवं महासत्त्व!, सखेद इव लक्ष्यसे ? ॥२२०॥ स प्राह नोचितं वक्तुं, निजखेदस्य कारणम् । तथापि तव मूत्यैव, रञ्जित: कथयाम्यहम् ॥२२१|| इदं हि वसुधासारं, महाभाग ! महापुरम् । अत्राभून्मे सुचित्ताख्य: पितामहपिता मम ।।२२२।। तेनार्जिता महारम्भैः, सप्त स्वर्णस्य कोटय: । निखाताश्च महालोभा-देकान्ते निजवेश्मनि ।।२२३।। अन्यदा मूर्च्छितस्तत्र, मृतोऽसौ दैवयोगत: । तत्पद्वे च कृतो लोकै-स्तत्पुत्र: सुधनाभिधः ॥२२४।। अन्यदा सीदता तेन, समुत्खातुं प्रचक्रमे । निधानं तदहो पैत्र्यं, यावत्तस्माद्विनिर्गत: ।।२२५॥ दुष्टो दृष्टिविष: सर्प-स्तेनालोकि महारुषा। सुधनो भस्मतां नीत-स्तत्पदेऽजनि तत्सुतः ।।२२६॥ सुचित्तो नाम सोऽप्येवं, प्रापितो भस्मपुञ्जताम् । पदे तस्यानुजातोऽहं, दूरं दारिद्यपीडितः॥२२७॥ [निधानस्थं च नूनं त-दारिद्यविनिवारकम् ।] द्रव्यं लातुं न शक्नोमि, तेनाऽहं खेदवानिति ॥२२८॥ श्रुत्वेदं फलदेवेन निजचित्ते विचिन्तितम् । मन्ये सुचित्त एवायं, मृत्वाजनि भुजङ्गमः ॥२२९॥ तेनेदं मूर्छितेनौच्चै-र्निधानकमधिष्ठितम् । तदिदं रक्षता तेन, प्रत्यक्षेणेव मृत्युना ॥२३०॥ स्वपुत्र: पुत्रपुत्रश्च, नीतौ द्वावपि पञ्चताम् । विचिन्त्यैवं ततस्तेन, स पुमान् भणितो यथा ॥२३१॥ दर्शयस्व निधानं मे, 'येनोत्खात्य तवार्ण्यते । स प्राह मम नो कार्य, तेन भो ! मूर्तमृत्युना ॥२३१।। जीव नन्द चिरं कालं, भुझ्वेमां निजसम्पदम् । सप्रोक्त: फलदेवेन, मा भैषीदर्शयस्व मे ॥२३२॥ उत्तिष्ठ येन तद्रव्य-मुत्खात्याहं ददामि ते । प्रतिपन्नं च तत्तेन, नीतश्च निजमन्दिरे ॥२३३।। दर्शितं च तकं तस्मै, तेनापि च ततो द्रुतम् । गृहीत्वा फलपत्राणि, तस्य विषघ्नशाखिनः ॥२३४|| कृत्वा चूर्णमतिश्लक्ष्णं, बद्धो मुष्टिस्ततो जवात् । उद्घाटितं निधानंत-निष्क्रान्त: स भुजङ्गमः॥२३५।। आच्छोटितश्च चूर्णेन, भुजङ्गो ऽजनि निर्विष: । उक्तश्च फलदेवेन, मुञ्च मुञ्चाधुना रुषम् ॥२३६।। १ येनोत्खातुं तवाऽर्ण्यन्ते-BJC । येनोत्खात्य तवार्पये-मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org